Sunday, September 15, 2013

GaneshStavarajaha गणेशस्तवराजः

GaneshStavarajaha 
GaneshStavarajaha is in Sanskrit. It is from Rudrayamal. It starts with “Bhagwan Uvacha”; hence it is a praise of God Ganesh made by Bhagwan that is by Gods God. 
Benefits of reciting GaneshStavaraja: Any devotee who recites this Ganesh Stotra of eight stanzas after taking a bath and purifying his/her body and mind and with devotion, faith and concentration, thrice in a day is taken care by Goddess Sharda with all her Siddhis’ and wealth thus all the desires of such devotee are fulfilled by the Goddess Sharda. 

गणेशस्तवराजः 
श्रीगणेशाय नमः ॥ श्रीभगवान उवाच । 
गणेशस्य स्तवं वक्षे कलौ झटिति सिद्धिदम् । 
न न्यासो न च संस्कारो न होमो न च तर्पणम् ॥ १ ॥ 
न मार्जनं च पञ्चाशत्सहस्रजपमात्रतः । 
सिद्धयत्यर्चनतः पञ्चशतब्राह्मणभोजनात् ॥ २ ॥ 
अस्य श्रीगणेशस्तवराजमंत्रस्य 
भगवान् सदाशिव ऋषिः । 
अनुष्टुप् छन्दः । महागणपतिर्देवता । 
श्रीमहागणपतिप्रीत्यर्थे जपे विनियोगः ॥ 
विनायकैकभावनासमर्चनासमर्पितं । 
प्रमोदकैः प्रमोदकैः प्रमोदमोदमोदकम् ।। 
यदर्पितं सदर्पितं नवान्नधान्यनिर्मितं ।।। 
न कण्डितं न खण्डितं न खण्डमण्डनं कृतम् ॥ १ ॥ 
सजातिकृद्विजातिकृत्स्वनिष्ठभेदवर्जितं । 
निरञ्जनं च निर्गुणं निराकृति ह्यनिष्क्रियम् ।। 
सदात्मकं चिदात्मकं सुखात्मकं परं पदं ।।। 
भजामि तं गजाननं स्वमाययात्तविग्रहम् ॥ २ ॥ 
गणाधिप त्वमष्टमूर्तिरीशसूनुरीश्र्वरः । 
त्वमम्बरं च शम्बरं धनञ्जयः प्रभञ्जनः ।। 
त्वमेव दीक्षितः क्षितिर्निशाकरः प्रभाकरः ।।। 
चराचरप्रचार हेतुरन्तरायशान्तिकृत् ॥ ३ ॥ 
अनेकदं तमालनीलमेकदन्तसुन्दरं । 
गजाननं नमोऽगजाननामृताब्धिचन्दिरम् ।। 
समस्तवेदवादसत्कलाकलापमन्दिरं ।।। 
महान्तरायकृत्तमोऽर्कमाश्रितोन्दुरुं परम् ॥ ४ ॥ 
सरत्नहेमघण्टिकानिनादनूपुरस्वनैर् । 
मृदङ्गतालनादभेदसाधनानुरुपतः ।। 
धिमिद्धिमित्तथोङ्गथोङ्गधैयिधैयिशब्दतो ।।। 
विनायकः शशाङ्कशेखरः प्रह्रष्य नृत्यति ॥ ५ ॥ 
सदा नमामि नायकैकनायकं विनायकं । 
कलाकलापकल्पनानिदानमादिपूरुषम् ।। 
गणेश्र्वरं गुणेश्र्वरं महेश्र्वरात्मसंभवमं ।।। 
स्वपादपद्मसेविनामपारवैभवप्रदम् ॥ ६ ॥ 
भजे प्रचण्डतुन्दिलं सदन्दशूकभूषणं । 
सनन्दनादिवन्दितं समस्तसिद्धसेवितम् ।। 
सुरासुरौघयोः सदा जयप्रदं भयप्रदं ।।। 
समस्तविघ्नघातिनं स्वभक्तपक्षपातिनम् ॥ ७ ॥ 
कराम्बुजात्तकङ्कणः पदाब्जकिङ्किणीगणो । 
गणेश्र्वरो गुणार्णवः फणीश्र्वराङ्गभूषणः ।। 

जगत्रयान्तरायशान्तिकारकोऽस्तु तारको ।।। 
भवार्णवस्यघोरदुर्गहा चिदेकविग्रहः ॥ ८ ॥ 
यो भक्तिप्रवणश्र्चराचरगुरोः स्तोत्रं गणेशाष्टकं 
शुद्धः संयतचेतसा यदि पठेन्नित्यं त्रिसन्ध्यं पुमान् ।। 
तस्य श्रीरतुला स्वसिद्धिसहिता श्रीशारदा सर्वदा 
स्यातां तत्परिचारिके किल तदा क्वाः कामनानां कथाः ॥ ९ ॥ 
॥ इति श्रीरुद्रयामलोक्तो गणेशस्तवराजः संपूर्ण ॥

GaneshStavarajaha  गणेशस्तवराजः


Custom Search

No comments: