Friday, September 13, 2013

GouriDashak Stotram गौरीदशकस्तोत्रम्

GouriDashak Stotram 
GouriDashak Stotram is in Sanskrit. It is a very beautiful creation of Param Poojya shrimad Aadi Shankaracharya. It is a praise of Goddess Gouri. He says that O! Gouri, O! Amba, O! Ambaruhakshi I always praise you. 
Benefits of the reciting stotra: Any devotee getting up early in the morning and after doing things done for becoming purified by body and mind recites this stotra every day with devotion and faith receives vacha-siddhi (whatever is said by him becomes true), becomes wealthy. He receives all types of wealth. He also becomes a great devotee of God Shiva. All described above is received by the blessings of Goddess Gouri.
गौरीदशकस्तोत्रम् 
लीलालब्धस्यापितलुप्ताखिललोकां लोकातीतैर्योगिभिरन्तश्र्चिरमृग्याम् । 
बालादित्यश्रेणिसमानद्युतिपुञ्जां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १ ॥ 
आशापाशक्लेशविनाशं विदधानां पादाम्भोजध्यानपराणां पुरुषाणाम् । 
ईशाम् ईशार्धाङगहरां तामभिरामां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥ 
नानाकारैः शक्तिकदम्बैर्भुवनानि व्याप्य स्वैरं क्रीडति येयं स्वयमेका । 
कल्याणीं तां कल्पलतामानतिभाजां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥ 
मूलाधारादुत्थितवीथ्या विधिरन्ध्रं सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् । 
येयं सूक्ष्मात्सूक्ष्मतनुस्तां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४ ॥ 
यस्यामोतं प्रोतमशेषं मणिमालासूत्रे यद्वत्कापि चरं चाप्यचरं च । 
तामध्यात्मज्ञानपदव्या गमनीयां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५ ॥ 
प्रत्याहारध्यानसमाधिस्थितिभाजां नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् । 
। सत्यज्ञानानन्दमयीं तां तनुमध्यां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६ ॥ 
चन्द्रापीडानन्दितमन्दस्मितवक्त्रां चन्द्रापीडालंकृतनीलालकभाराम् । 
इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७ ॥ 
आदिक्षान्तामक्षरमूर्त्या विलसन्तीं भूते भूते भूतकदम्बप्रसवित्रीम् । 
शब्दब्रह्मानन्दमयीं तां तडिदाभां । गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८ ॥ 
यस्याः कुक्षौ लीनमखण्डं जगदण्डं भूयो भूयः प्रादुरभूदुत्थितमेव । 
पत्या सार्धं तां रजताद्रौ विहरन्तीं गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ९ ॥ 
नित्यः शुद्धो निष्कल एको जगदीशः साक्षी यस्याः सर्गविधौ संहरणे च । 
विश्र्वत्राणक्रीडनलोलां शिवपत्नीं गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १० ॥ 
प्रातःकाले भावविशुद्धः प्रणिधानाद्भक्त्या नित्यं जल्पति गौरीदशकं यः । 
वाचा सिद्धिं संपदमग्य्रां शिवभक्तिं तस्यावश्यं पर्वतपुत्री विदधाति ॥ ११ ॥ 
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्यविरचितं गौरीदशकस्तोत्रं संपूर्णम् ॥ 
GouriDashak Stotram 
गौरीदशकस्तोत्रम्


Custom Search

No comments: