Monday, November 4, 2013

BaliKrutam ShriKrishna Stotram बलिकृतं श्रीकृष्णस्तोत्रम्


BaliKrutam ShriKrishna Stotram 
BaliKrutam ShriKrishna Stotram is in Sanskrit. It is created by demon king Bali. This stotra is from Brahmavaivart Purana, ShriKrishna Janama khanda adhyay 119 shlokas 23 to 59-1\2. King Bali has created this stotra to praise God ShriKrishna for requesting him for not killing his son Banasur. Benefits of the stotra: This stotra is very pious. It removes all the sins whosoever recites it daily with devotion and concentration and faith. It also gives health, wealth and it makes the devotee from all his troubles so all so it gives mukti after end of the life. I am uploading this stotra just to remember King Bali on this Diwali day of BaliPratipada. God Vaman (incarnation of God Vishnu) had given kingdom of Patala to King Bali and as per his request he is allowed to be on the Bhooloka in Diwali for two days. Kartik Shukla Pratipada is known as Bali Pratipada.
बलिकृतं श्रीकृष्णस्तोत्रम् 
बलिरुवाच 
अदित्याः प्रार्थनेनैव मातृदेव्या व्रतेन च । 
पुरा वामनरुपेण त्वयाहं वञ्चितः प्रभो ॥ १ ॥ 
सम्पद्रूपा महालक्ष्मीर्दत्ता भक्ताय भक्तितः । 
शक्राय मत्तो भक्ताय भ्रात्रे पुण्यवते ध्रुवम् ॥ २ ॥ 
अधुना मम पुत्रोऽयं बाणः शंकरकिङ्करः । 
आराच्य रक्षितः सोऽपि तेनैव भक्तबन्धुना ॥ ३ ॥ 
परिपुष्टश्र्च पार्वत्या यथा मात्रा सुतस्तथा । 
गृहीतवांश्र्च तत्कन्या बलेन युवतीं सतीम् ॥ ४ ॥ 
समुद्यतश्र्च तं हन्तुं कार्तिकेनापि वारितः । 
आगतोऽसि पुनर्हन्तुं पौत्रस्य दमने क्षमम् ॥ ५ ॥ 
सर्वात्मनश्र्च सर्वत्र समभावः श्रुतौ श्रुतः । 
करोषि जगतां नाथ कथमेवं व्यतिक्रमम् ॥ ६ ॥ 
त्वया च निहतो यो हि तस्य को रक्षिता भुवि । 
सुदर्शनस्य तेजो हि सूर्यकोटिनिभं परम् ॥ ७ ॥ 
केषां सुराणामस्त्रेण तदेवमनिवारितम् । 
यथा सुदर्शनं चैवमस्त्राणां प्रवरं वरम् ॥ ८ ॥ 
तथा भवश्र्च देवानां सर्वेषामीश्र्वरः परः । 
यथा भवस्तथा कृष्णो विधाता वेधसामपि ॥ ९ ॥ 
विष्णुः सत्त्वगुणाधारः शिवः सत्त्वाश्रयस्तथा । 
स्वयं विधाता रजसः सृष्टिकर्ता पितामहः ॥ १० ॥ 
कालाग्निरुद्रो भगवान् विश्र्वसंहारकारकः । 
तमसश्र्चाश्रयः सोऽपि रुद्राणां प्रवरो महान् ॥ ११ ॥ 
स एव शंकरांशश्र्चाप्यन्ये रुद्राश्र्च तत्कलाः । 
भवांश्र्च निर्गुणस्तेषां प्रकृतेश्र्च परस्तथा ॥ १२ ॥ 
सर्वेषां परमात्मा वै प्राणा विष्णुस्वरुपिणः । 
मानसं च स्वयं ब्रह्मा स्वयं ज्ञानात्मकः शिवः ॥ १३ ॥ 
प्रवरा सर्वशक्तीनां बुद्धिः प्रकृतिरीश्र्वरी । 
स्वात्मनः प्रतिबिम्बस्ते जीवः सर्वेषु देहिषु ॥ १४ ॥ 
जीवः स्वकर्मणां भोगी स्वयं साक्षी भवांस्तथा । 
सर्वे यान्ति त्वयि गते नरदेवे यथानुगाः ॥ १५ ॥ 
सद्यः पतति देहश्र्च शवोऽस्पृश्यस्त्वया विना । 
बुद्धाः सन्तो न जानन्ति वञ्चितास्तव मायया ॥ १६ ॥ 
त्वां भजन्त्येव ये सन्तो मायामेतां तरन्ति ते । 
त्रिगुणा प्रकृतिर्दुर्गा वैष्णवी च सनातनी ॥ १७ ॥ 
परा नारायणीशानी तव माया दुरत्यया । 
 त्वदंशाः प्रतिविश्वेषु ब्रह्मविष्णुशिवात्मकाः ॥ १८ ॥ 
सर्वेषामपि विश्र्वेषामाश्रयो यो महान् विराट् । 
स शेते च जले योगाद् विश्र्वेशो गोकुले यथा ॥ १९ ॥ 
स एव वासुर्भगवान् तस्य देवो भवान् परः । 
वासुदेव इति ख्यातः पुराविद्भिः प्रकीर्तितः ॥ २० ॥ 
त्वमेव कलया सूर्यस्त्वमेव कलया शशी । 
कलया च हुताशश्र्च कलया पवनः स्वयम् ॥ २१ ॥ 
कलया वरुणश्र्चैव कुबेरश्र्च यमस्तथा । 
कलया त्वं महेन्द्रश्र्च कलया धर्मं एव च ॥ २२ ॥ 
त्वमेव कलया शेष ईशानो निर्ऋतिस्तथा । 
मुनयो मनवश्र्चैव ग्रहाश्र्च फलदायकाः ॥ २३ ॥ 
कलाकलायाश्र्चांशेन सर्वे जीवाश्र्चराचराः । 
त्वं ब्रह्म परमं ज्योतिर्ध्यायन्ते योगिनस्तथा ॥ २४ ॥ 
तत्त्वाद्रियन्ते भक्तास्ते ध्यायन्ते च तदन्तरे । 
नवीननीरदश्यामं पीतकौशेयवाससम् ॥ २५ ॥ 
ईषद्धास्यप्रसन्नास्यं भक्तेशं भक्तवत्सलम् । 
चन्दनोक्षितसर्वाङ्गं द्विभुजं मुरलीधरम् ॥ २६ ॥ 
मयूरपिच्छचूडं च मालतीमाल्यभूषितम् । 
अमूल्यरत्ननिर्माणकेयूरवलयान्वितम् ॥ २७ ॥ 
मणिकुण्डलयुग्मेन गण्डस्थलविराजितम् । 
रत्नसाराङ्गुलीयं च क्वणन्मञ्जीररञ्जितम् ॥ २८ ॥ 
कोटिकन्दर्पलीलाभं शरत्कमललोचनम् । 
शरत्पूर्णेन्दुनिन्द्यास्यं चन्द्रकोटिसमप्रभम् ॥ २९ ॥ 
वीक्षितं सस्मिताभिश्र्च गोपीनां कोटिकोटिभिः । 
वयस्यैः पार्षदैर्गोपैः सेवितं श्र्वेतचामरैः ॥ ३० ॥ 
गोपबालकवेषं च राधावक्षःस्थलस्थितम् । 
ध्यानासाध्यं दुराराध्यं ब्रह्मेशशेषवन्दितम् ॥ ३१ ॥ 
सिद्धेन्द्रैश्र्च मुनीन्द्रैश्र्च योगीन्द्रैः प्रणतं स्तुतम् । 
वेदानिर्वचनीयं च परं स्वेच्छामयं विभुम् ॥ ३२ ॥ 
स्थूलात् स्थूलतमं रुपं सूक्ष्मात् सूक्ष्मतमं परम् । 
सत्यं नित्यं प्रशस्तं च प्रकृतेः परमीश्र्वरम् ॥ ३३ ॥ 
निर्लिप्तं च निरीहं च भगवन्तं सनातनम् । 
एवं ध्यात्वा च ते पूताः स्निग्धदूर्वाक्षताञ्जलम् ॥ ३४ ॥ 
पद्मापद्मार्चिते पादपद्मे च दातुमुत्सुकाः । 
वेदाः स्तोतुमशक्तास्त्वामशक्ता सा सरस्वती ॥ ३५ ॥ 
शेषः स्तोतुमशक्तश्र्च स्वयम्भूः शम्भुरीश्र्वरम् । 
गणेशश्र्च दिनेशश्र्च महेन्द्रश्र्च एव च ॥ ३६ ॥ 
स्तोतुं नालं धनेशश्र्च किमन्ये जडबुद्धयः । 
गुणातीतमनीहं च किं स्तौमि निर्गुणं परम् ॥ ३७ ॥ 
अपण्डितोऽहमसुरो न सुरः क्षन्तुमर्हसि ॥ ३८ ॥ 
॥ इति श्रीब्रह्मवैवर्ते बलिकृतं श्रीकृष्णस्तोत्रं संपूर्णम् ॥ 
 BaliKrutam ShriKrishna Stotram 
बलिकृतं श्रीकृष्णस्तोत्रम्


Custom Search

No comments: