Sunday, November 3, 2013

ShriLakshmyaShtottarShatNam Stotram श्रीलक्ष्म्यष्टोत्तरशतनाम स्तोत्रम्


ShriLakshmyaShtottarShatNam Stotram 
ShriLakshmyaShtottarShatNam Stotram is in Sanskrit. It is a Lakshmi stotra and it has 108 pious names of Goddess Lakshmi. This is told by God Mahadev to Goddess Parvati on her request for the benefit of the devotees. God says that it removes all the sins of the devotee and he also becomes rich, receives health, wealth and whatever he desires if he just here this stotra. Anybody recites this stotra early in the morning everyday with devotion becomes free from all his unhappiness. All his poverty is removed. Thus this is a very pious stotra. 
श्रीलक्ष्म्यष्टोत्तरशतनाम स्तोत्रम् 
श्रीगणेशाय नमः ॥ देव्युवाच ॥ 
देवदेव महादेव त्रिकालज्ञ महेश्र्वर । 
करुणाकर देवेश भक्तानुग्रहकारक ॥ १ ॥ 
अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ।
 ईश्र्वर उवाच ॥ 
देवि साधु महाभागे महाभाग्यप्रदायकम् । 
सर्वैश्र्वर्यकरं पुण्यं सर्वपापप्रणाशगनम् ॥ २ ॥ 
सर्वदारिद्रशमनं श्रवणाद्भुक्तिमुक्तिदम् । 
राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम् ॥ ३ ॥ 
दुर्लभं सर्वदेवानां चतुःषष्टिकलास्पदम् । 
पद्मादीनां वरान्तानां विधिनां नित्यदायकम् ॥ ४ ॥ 
समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् । 
किमत्र बहुनोक्तेन देवीप्रत्यक्षदायकम् ॥ ५ ॥ 
तव प्रीत्याय वक्ष्यामि समाहितमनाः श्रृणु । 
अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥ ६ ॥ 
 क्लींबीजपदमित्युक्तं शक्तिस्तु भुवनेश्र्वरी । 
अंगन्यासः करन्यास स इत्यादिः प्रकीर्तितः ॥ ७ ॥ 
ध्यानम् ॥ 
वंदे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां 
 हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् । 
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां
पार्श्र्वे पंकजशंखपद्मनिधिभिर्युक्रां सदा शक्तिभिः ॥ ८ ॥ 
सरसिजनयने सरोजहस्ते 
धवलतरांशुकगंधमाल्यशोभे । 
भगवति हरिवल्लभे मनोज्ञे 
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ ९ ॥ 
प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदां । 
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ १० ॥ 
वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् । 
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ ११ ॥ 
अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् । 
नमामि कमलां कान्तां कामाक्षीं क्रोधसंभवाम् ॥ १२ ॥ 
अनुग्रहपदां बुद्धिमनघां हरिवल्लभाम् । 
अशोकाममृतां दीप्तां लोकशोकविनाशिनीम् ॥ १३ ॥ 
नमामि धर्मनिलयां करुणां लोकमातरम् । 
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुंदरीम् ॥ १४ ॥ 
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् । 
पद्ममालाधरां देवीं पद्मिनीं पद्मगंधिनीम् ॥ १५ ॥ 
पुणयगंधां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् । 
नमामि चंद्रवदनां चंद्रां चंद्रसहोदरीम् ॥ १६ ॥ 
चतुर्भुजां चंद्ररुपामिंदिरामिदुशीतलाम् । 
आल्हादजननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ १७ ॥ 
विमलां विश्र्वजननीं तुष्टिं दारिद्र्यनाशिनीम् । 
प्रीतिपुष्करिणीं शांतां शुक्लमाल्यांबरां श्रियम् ॥ १८ ॥ 
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् । 
वसुंधरामुदारांगीं हरिणीं हेममालिनीम् ॥ १९ ॥ 
धनधान्यकरीं सिद्धिं सदा सौम्यां शुभप्रदाम् । 
नृपवेश्मगतानंदां वरलक्ष्मीं वसुप्रदाम् ॥ २० ॥ 
शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् । 
नमामि मंगलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ २१ ॥ 
विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम् । 
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रवहारिणीम् ॥ २२ ॥ 
नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् । 
त्रिकालज्ञानसंपन्नां नमामि भुवनेश्र्वरीम् ॥ २३ ॥ 
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरंगधामेश्र्वरीं 
दासीभूतसमस्तदेववनितां लोकैकदीपांकुराम् । 
श्रीमन्मंदकटाक्षलब्धविभवब्रह्मेंद्रगंगादरां 
त्वां त्रैलोक्यकुटुंबिनीं सरसिजां वन्दे मुकुंदप्रियाम् ॥ २४ ॥ 
मातर्नमामि कमले कमलायताक्षि 
श्रीविष्णुह्रत्कमलवासिनि विश्र्वमातः । 
क्षीरोदजे कमलकोमलगर्भगौरि 
लक्ष्मि प्रसीद सततं नमतां शरण्ये ॥ २५ ॥ 
त्रिकालं यो जपेद्विद्वान् षण्मासं विजितेंद्रियः । 
दारिद्रध्वंसनं कृत्वा सर्वमाप्नोत्ययत्नतः ॥ २६ ॥ 
देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम् । 
येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः ॥ २७ ॥ 
भृगुवारे शतं धीमान् पठेद्वत्सरमात्रकम् । 
अष्टैश्र्वर्यमवाप्नोति कुबेर इव भूतले ॥ २८ ॥ 
दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम् । 
येन श्रियमवाप्नोति कोटिकन्मदरिद्रितः ॥ २९ ॥ 
भुक्त्वा तु विपुलान् भोगानस्याः सायुज्यमाप्नुयात् । 
प्रातःकाले पठेन्नित्यं सर्वदुःखोपशांतये । 
पठंस्तु चिंतयेदेवीं सर्वाभरणभूषिताम् ॥ ३० ॥ 
॥ इति श्रीलक्ष्म्यष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥
ShriLakshmyaShtottarShatNam Stotram 
श्रीलक्ष्म्यष्टोत्तरशतनाम स्तोत्रम्


Custom Search

No comments: