Friday, December 27, 2013

Shri Gayatri kavacha श्री गायत्री कवच


Shri Gayatri kavacha 
Shri Gayatri Kavacha is in Sanskrit. It has arisen in the conversation in between Brahma Rushi Narad and God Narayan. The kavacha is very pious and it removes all bad sufferings and gives success in the all 16 Kalas and Vidyas. It removes all the sins of devotees who recite\listen the kavacha every day. This kavacha also protects the devotees from all the evil things and their bad effects.
श्री गायत्री कवच
शुचिर्भूत होऊन आसनावर बसावे. ज्याच्यासाठी कवच 
करावयाचे आहे त्याला समोर बसवावे दहा वेळा गायत्री 
जप करावा. ध्यानश्लोकानंतर भस्माने समोरच्या व्यक्तीच्या
अवयवांना स्पर्श करावा. कवच पूर्ण क्षाल्यावर पुन्हा दहा
गायत्री जप करुन आसनावरुन उठावे.
नारद उवाच 
स्वामिन् सर्व जगन्नाथ संशयोऽस्ति मम प्रभो ।
चतुःषष्टिकलाभिज्ञ पातकाद्योगविद्वर ॥ १ ॥
मुच्यते केन पुण्येन ब्रह्मरुपः कथं भवेत् ।
देहश्च देवतारुपो मंत्ररुपो विशेषतः ॥ २ ॥
कर्म तत्  श्रोतुमिच्छामि न्यासं च विधिपूर्वकम् ।
ऋषिछंदोऽधिदेवं च ध्यानं च विधिवत्प्रभो ॥ ३ ॥
नारायण उवाच
पठणात् धारणात्मर्त्यः सर्वपापैः प्रमुच्यते ।
सर्वान्कामानवाप्नोति देवीरुपश्च जायते ॥ ४ ॥
गायत्रीकवचस्यास्य ब्रह्मविष्णुमहेश्वराः ।
ऋषयो ऋग्यजुस्सामाथर्वछंदांसि नारद ॥ ५ ॥
ब्रह्मरुपा देवतोक्ता गायत्री  परमा कला ।
' तत् ' बीजं भर्ग इत्येषा शक्तिरुपा मनीषिभिः ॥ ६ ॥
कीलकं च धियःप्रोक्तं मोक्षार्थे विनियोजयेत् ।
(हाताने या स्थळांना, अवयवांना स्पर्श करावा.)
न्यास
तत्सवितुश्च हृदये वरेण्यं शिरसि न्यसेत् ॥ ७ ॥
भर्गो देवस्य शिखायां कवचे धीमहीति च ।
धियो यो तस्तथा नेत्रे त्वस्त्राय च प्रचोदयात् ॥ ८ ॥
ध्यानम्
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैः ।
युक्तामिन्दुकलानिबद्धमुकुटां तत्वार्थवर्णात्मिकाम् ॥ 
गायत्री वरदाभयाङकु शकशाशूलं कपालं गुणंम् ।
शंखं चक्रमथारविंद युगुलं हस्तैर्वहन्तीं भजे ॥ ९ ॥
(हातांत भस्म, अक्षर अक्षता घेऊन मंत्राबरोबर त्या त्या
दिशांना टाकाव्यात.)
रक्षा-कवच 
गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ।
ब्रह्मसंध्या तु मे पश्चादुत्तरायां सरस्वती ॥ १० ॥
पार्वती मे दिशं रक्षेत् पावकीं जलशायिनी ।
यातुधानीं दिशं रक्षेत् यातुधानं भयंकरी ॥ ११ ॥
पावमानीं दिशं रक्षेत् पवमान-विलासिनी ।
दिशं रौद्री च मे पातु रुद्राणी रुद्ररुपिणी ॥ १२ ॥
ऊर्ध्वं ब्रह्माणि मे रक्षेदधस्तात् वैष्णवी तथा ।
एवं दशदिशो रक्षेत् सर्वांग भुवनेश्वरी ॥ १३ ॥
पदस्पर्श-कवच
तत् पदं पातु मे पादौ जंघे मे सवितुः पदम् ।
रेण्यं कटिदेशे तु नाभिं भर्गस्तथैव च ॥ १४ ॥
देवस्य मे तु हृदये धीमहीति च गल्लयोः ।
धियः पदं च मे नेत्र यः पदं मे ललाटकम् ॥ १५ ॥
न पदं पातु मे मुर्ध्नि शिखायां मे प्रचोदयात् ।
(प्रत्येक अवयवाला भस्म लावावे.)
अक्षरस्पर्श-कवच
तत् पदं पातु मूर्धानं सकारः पातु भालकम् ॥ १६ ॥
चक्षुषी तु विकारार्णः तुकारस्तु कपोलयोः ।
स्कंधरेकास्तु मुखे तथा ॥ १७ ॥
णिकार ऊर्ध्वमोष्ठं तु यंकारस्त्वधरोष्ठकम् ।
आस्यमध्ये भकारार्णो गोंकारश्चुबुके तथा ॥ १८ ॥
देकारः कण्ठदेशे तु वकारः स्कंधदेशकम् ।
स्यकारो दक्षिणं हस्तं धिकारो वामहस्तकम् ॥ १९ ॥
मकारो हृदयं रक्षेत् हिकारः उदरे तथा ।
धिकारो नाभिदेशे तु योकारस्तु कटिं तथा ॥ २० ॥
गुह्यं रक्षतु योकार ऊरु द्वौ नः पदाक्षरम् ।
प्रकारो जानुनी रक्षेत् चोकारो जंघदेशकम् ॥ २१ ॥
दकारोऽगुल्यदेशे तु याकारः पदयुग्मकम् ।
तकार व्यञ्जनं चैव सर्वांगं मे सदाऽवतु ॥ २२ ॥
फलरुपता
इदं तु कवचं दिव्यं बाधाशतविनाशनम् ।
चतुःषष्टिकलाविद्यादायकं मोक्षकारकम् ॥ २३ ॥
मुच्यते सर्वपापेभ्यः परंब्रह्माधिगच्छति ।
पठणाच्छवणाद्वापि गोसहस्त्रफलं लभेत् ॥ २४ ॥ 
(शिल्लक राहिलेले भस्म उत्तरेस फुंकरुन टाकावे.

॥ इति नारद-नारायणसंवादे श्री गायत्री कवचं संपूर्णम् ॥

Shri Gayatri kavacha 
श्री गायत्री कवच


Custom Search

No comments: