Saturday, December 7, 2013

Shri Mallari Hrudaya श्री मल्हारी हृदय


Shri Mallari Hrudaya 
Shri Mallari Hrudaya is in Sanskrit. It is created from the conversation in between God Shiva and Goddess Paravati.
श्री मल्हारी हृदय स्तोत्र 
श्री गणेशाय नमः ॥ 
 ॐ अस्य श्री मल्लारि-हृदय मंत्रस्य । 
ब्रह्मा विष्णू महेश्र्वरा ऋषयः ॥ 
अनुष्टुप् छंदः । श्री गंगा म्हालसायुक्त मल्लारि देवता ॥ 
भुर्भुवः स्वः इति बीजम् ॥ तत्सवितुर्वरेण्यं इति शक्तिः ॥ 
भर्गो देवस्य धीमहि इति कीलकं ॥ धियो यो नः प्रचोदयादित्यस्थम् ॥ 
श्री मार्तंड-भैरव प्रीत्यर्थं ॥ मम समस्त पुरुषार्थ सिद्धर्थे जपे विनियोगः ॥ 
अंगन्यासः ॐ ऐं मल्लारये नमः अंगुष्टाभ्यां नमः हृदयाय नमः ॥ 
ॐ र्‍हीं म्हालसानाथाय नमः तर्जनीभ्यां नमः शिरसे स्वाहा ॥ 
ॐ श्री मेघनाथाय नमः मध्यमाभ्यां नमः शिखायै वौषट् ॥ 
ॐ क्लीं महीपतये नमः अनामिकाभ्यां नमः कवचाय हूं ॥ 
ॐ सीं मैरालाय नमः कनिष्ठिकाभ्यां नमः नेत्र त्रयाय वौषट् ॥ 
ॐ ऐं र्‍हीं श्रीं क्लीं सौं खङगराजाय नमः करतल करपृष्ठाभ्यां नमः ॥ 
अस्त्राय फट् ॥ ॐ भूर्भुवः स्वरोम इति दिग्बंधः ॥ 
अथ ध्यानम् 
ध्यायेन्मार्तडरुपं अचल-चल-विभूं कोटि सूर्य प्रकाशं । 
आनंदं विश्ववंद्यं सकल जनकरं कर्मधर्मादि नाथं । 
अश्वं बोधावरुढं परमविरलं श्री कोटि कंदर्प दर्पम् । 
श्रीमन्मल्लारि राजं विजय जयकरं म्हाळसाकांत सिद्धं ॥ 
अथ ऋषिन्यासः 
ॐ र्‍हीं विष्णवे नमः तर्जनीभ्यां नमः शिरसे स्वाहा ॥ 
ॐ श्री महेशह्वराय नमः मध्यमाभ्यां नमः शिखायै वौषट् । 
ॐ क्लीं कामबीजाय नमः अनामिकाभ्यां नमः, कवचाय हूं ॥ 
ॐ सौं शक्तिबीजाय नमः कनिष्टिकाभ्यां नमः नेत्रत्रयाय वौषट् ॥ 
ॐ ऐं र्‍हीं श्रीं क्लीं सौं ब्रह्मा विष्णू महेश्वराभ्यां नमः 
करतल करपृष्ठाभ्यां नमः अस्त्राय फट् ॥ 
पूर्वे श्वेतांबरं देवं आग्नेयां रुद्र भैरवं । 
दक्षिणे चंडरुपाय नैऋत्यां क्रोधभैरवं ॥
पश्चिमे उन्नतग्रीवं वायव्यां कालभैरवं ॥ 
उत्तरे सिद्धिं सिद्धांतं ईशान्यां शिवकर्पूरम् ॥ 
उर्ध्वे कालविरुपाय अंबरे मल्ल हारिणीं ॥ 
अंतरिक्षं सदानंदं यळकोटि स्वरुपिणं ॥ 
एवं एकादशं देवं रक्षे त्रैलोक्य सर्वदा । 
विजयी सर्व कामार्थ क्षेत्रपाल महीपते । 
भ्रुवोर्मध्येतु ॐकारं द्विदले सहस्र भावनः । 
नेत्रे त्रिपुरांतक देव नासिके कामहारक ॥ 
मुखे मुमुक्षनाथाय, कंठं कर्म कलामृत ॥ 
हृदयं हरिलिंगाय स्कंधे कर्म हरि प्रियं ॥ 
पृष्ठे प्रीलय रुद्राय उदरे उदयार्कजम् ॥ 
मध्ये रक्षतु कायार्थी नाभी नारद जायते ॥ 
गुह्यं गुरुपथान्माय जंघे जिव प्रदोक्तु ॥ 
जानुमंडल जानाथ पद प्रासाद प्राप्तये ॥ 
अंगुष्ठे सर्व तीर्थानि, सर्वांगे परमेश्र्वरः ॥ 
एवं अंगेषु दिव्यस्य मार्तंड स्वरुपिणं ॥ 
प्रथमं काशिनाथाय । द्वितीयं पंचलिंगयो । 
तृतीयं प्रेमलिंगाय । चतुर्थं देवरुपिणीम् । 
पंचमं पंचप्राणाय । षष्ठं षङ्भुज क्षेमकम् । 
सप्तकं सपाकं सिद्धी । अष्टमं अंबिकाप्रियम् । 
नवमं नागनाथं च । दशमं शोषहारकं । 
एकादशं महारुद्रं । द्वादशे ज्योतिः लिंगयोः । 
त्रयोदशं त्रियोगीच । चतुर्दशं भुवनत्रये ॥ 
पंचदशं मंडलं पूर्व । षोडशं च समाधिने । 
सप्तदशं गुह्यरुपं । अष्टदशं च अब्जकम् । 
नवदशं नैसर्गिक देवी । तन्नो देवी प्रसन्नता ॥ 
एकोनविंशति नामानि विश्वंभर स्वरुपयो । 
ज्ञानसिद्धी भवेत्प्राप्ती । एकादशं जपं जले । 
स्मशाने दशपाठं च सप्तवारं पठेन्नरः । 
सर्वपगो भवेत् हानिः संग्रामे विजयी भवेत् । 
अश्वत्थं बिल्वं मादारं चंदनं धातुपंचकं । 
शामा सुगंधि कादंबा नववारं पठेत्सुखं । 
मंत्रसिद्धी नवरात्रेण । अष्टरात्रं च देवतम् । 
पंचरात्रे जनवश्यं, त्रिरात्रं त्रिसमाहीतः ॥ 
द्विरात्रं व्याघ्र सर्पाणाम् मोहनं मंत्र मालिका । 
एवं हृदयं मार्तंड पाठं शुभकुलं जये ॥ 
मार्तंड क्षेत्र मान्यो वा कर्म धर्म सुखोवहं ॥ 
एवं विशांति ते कार्य । मार्तंड रुप दर्शिनम् ॥ 
भावार्थ तारको देव परब्रह्म स्वरुपिणीम् ॥ 
इति श्रुति-स्मृति योगार्णव श्री मार्तंड अवतार प्रोक्तं 
ईश्र्वर-पार्वति संवादे मल्लारि हृदय संपूर्णम् ॥

Shri Mallari Hrudaya 
श्री मल्हारी हृदय


Custom Search

No comments: