Monday, March 24, 2014

KetuPanchaVinshatiNam Stotra केतुपचविंशतिनामस्तोत्रम्


KetuPanchaVinshatiNam Stotra 
This is a Ketu Stotra of his 25 names. It is in Sanskrit. This stotra is from Skandha Purana. The horoscope in which Ketu is badly placed or it is with Saturn, Mars, Harshal, Neptune such people are requested to recite or listen this stotra every day in Ketu Mahadasha or AnterDasha or when the above Grahas are passing in the house where Ketu Is placed.
केतुपचविंशतिनामस्तोत्रम् 
अस्य श्रीकेतुपञ्चविंशतीनामस्तोत्रस्य मधुच्छन्दो ऋषिः । 
गायत्री छन्दः । केतुर्देवता । केतुप्रीत्यर्थं जपे विनियोगः ॥ 
केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः । 
लोककेतुर्महाकेतुः सर्वकेतुर्भयप्रदः ॥ १ ॥ 
रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक् । 
पलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ॥ २ ॥ 
तारागणविमर्दी च जैमिनेयो ग्रहाधिपः । 
पञ्चविंशति नामानि केतोर्यः सततं पठेत् ॥ ३ ॥ 
तस्य नश्यंति बाधाश्च सर्वाः केतुप्रसादतः । 
धनधान्यपशूनां च भवेत् वृद्धिर्न संशयः ॥ ४ ॥ 
॥ इति श्रीस्कंदपुराणे केतोः पञ्चविंशतिनामस्तोत्रम् संपूर्णम् ॥
KetuPanchaVinshatiNam Stotra 
केतुपचविंशतिनामस्तोत्रम्


Custom Search

No comments: