Saturday, April 12, 2014

.Shri DattatTreyAshtottarShatNam Stotra श्रीदत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम्


.
Shri DattatTreyAshtottarShatNam Stotra 
 Shri DattatTreyAshtottarShatNam Stotra is in Sanskrit. The stotra consists of 108 Pious Names of God Dattatreya. It is fromBrahmanda Purana. It has arisen in the conversation in between Narad Rushi and God Brahmadev. 
श्रीदत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम् 
अस्य श्रीदत्तात्रेयअष्टोत्तरशतनामस्तोत्रमन्त्रस्य । ब्रह्माविष्णुमहेश्र्वर ऋषयः । 
श्रीदत्तात्रेयो देवता । अनुष्टुप् छन्दः । श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगः । 
अथ ध्यानं । 
दिगम्बरं भस्मसुगंधलेपनं चक्रं त्रिशूलं डमरुं गदायुधम् । 
पद्मासनं योगिमुनीन्द्रवंदितं दत्तात्रेयध्यानमभीष्टसिद्धिदं ॥ 
इति ध्यानम् । 
अनसूयासुतो दत्तो अत्रिपुत्रो महामुनिः । 
योगीन्द्रः पुण्यपुरुषो देवेशो भुवनेश्र्वरः ॥ १ ॥ 
वेदांतवेद्यो वरदो विश्र्वरुपोऽव्ययो हरिः । 
सच्चिदानन्दः सर्वेशो योगीशो भक्तवत्सलः ॥ २ ॥ 
दिगम्बरो दिव्यमूर्तिर्दिव्यभूतिविभूषणः । 
अनादिसिद्धसुलभो भक्तवांछितदायकः ॥ ३ ॥ 
भुक्तिमुक्तिप्रदात्ता च कार्तवीर्यवरप्रदः । 
एकोनैको न द्वितीयो निगमागमवन्दितः ॥ ४ ॥ 
सात्तवतानां महात्मा च विश्र्वात्मा विश्र्वतोमुखः । 
सर्वेश्र्वरः सदातुष्टो सर्वमङ्गलदायकः ॥ ५ ॥ 
निष्कलंको निराभासो निर्विकल्पो निरञ्जनः । 
गुणात्मको गुणातीतो ब्रह्माविष्णुशिवात्मकः ॥ ६ ॥ 
नानारुपधरो नित्यः शान्तो दान्तः कृपानिधिः । 
भक्तप्रियो भवहरो भगवान् भवनाशनः ॥ ७ ॥ 
आदिदेवो महादेवो देवेशो जगदिश्र्वरः । 
परमात्मा परब्रह्म सदानन्दो जगद्गुरुः ॥ ८ ॥ 
नित्यतृप्तो निराकारो निर्विकारो निराश्रयः । 
पुरुषोत्तमो लोकनाथो पुराणपुरुषोऽनघः ॥ ९ ॥ 
अपारमहिमानन्त आद्यन्तरहितः शिवः । 
संसारभयदावाग्निभवसागरतारकः ॥ १० ॥ 
श्रीनिवासो विशालाक्षो क्षीराब्धिशयनोऽच्युतः । 
सर्वपापक्षयकरस्तापत्रयनिवारणः ॥ ११ ॥ 
लोकेशः सर्वभूतेशो व्यापकः करुणाकरः । 
ब्रह्मादिवन्दितपदो मुनिवन्द्यः स्तुतिप्रियः ॥ १२ ॥ 
नानारुपः क्रियातीतो निस्पृहो निर्मलात्मकः । 
मयाधीशो महात्मा च महादेवो महेश्र्वरः ॥ १३ ॥ 
व्याघ्रचर्माम्बरधरो नागकुण्डलभूषणः । 
सर्वलक्षणसम्पन्नो सर्वसिद्धिप्रदायकः ॥ १४ ॥ 
सर्वज्ञः करुणासिन्धुः सर्पहारः सदाशिवः । 
सह्याद्रिघासः सर्वात्मा भवबन्धविमोचनः ॥ १५ ॥ 
विश्र्वंभरो विश्र्वनाथो जगन्नाथो जगत्प्रभुः । 
अष्टोत्तरशतं नाम्नां दत्तात्रेयमहामुनेः ॥ १६ ॥ 
नित्यं पठति यो भक्त्या सर्वपापैः प्रमुच्यते । 
सर्वदुःखप्रशमनं सर्वारिष्टनिवारणम् ॥ १७ ॥ 
भोगमोक्षप्रदं नृणां दत्तसायुज्यमाप्नुयात् । 
पठन्ति ये प्रयत्नेन सत्यं सत्यं वदाम्यहम् ॥ १८ ॥ 
॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीदत्तात्रेय- 
अष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥


Shri DattatTreyAshtottarShatNam Stotra 
 श्रीदत्तात्रेय अष्टोत्तरशतनाम स्तोत्रम्


Custom Search

No comments: