Saturday, August 23, 2014

Gayatri SahasraNam Part 2/2 श्रीगायत्री सहस्त्रनाम भाग २/२


Gayatri SahasraNam 
Shri Gayatri SahasraNam Stotram is in Sanskrit. It is from Devibhagwat 6th Adhyay. God Naranyan is telling these pious thousand names of Goddess Gayatri to Brahmrushi Narad. FalaShruti: Japa, Homa, Dhyana or writting of this stotra blessess such devotee by fulfilling all his desires. Devotee suffering from bad health or diseases get cured. Devotee who wants money, Mukti or anything his desire is fulfilled. God Narayan is telling Brahmarushi Narad that it is true and true and true.
Gayatri SahasraNam Part 1 and 2 are only for Text; in the video it is full.


श्रीगायत्री सहस्त्रनाम भाग २/२
परचित्तविधानज्ञा पञ्चिका पञ्चरुपिणी ।
पूर्णिमा परमा प्रितिः परतेजः प्रकाशिनी ॥ ९१ ॥
पुराणी पौरुषी पुण्या पुण्डरिकनिभेक्षणा ।
पातालतलनिर्मग्ना प्रीता प्रीतिविवर्धिनी ॥ ९२ ॥
पावनी पादसहिता पेशला पवनाशिनी ।
प्रजापतिः परिश्रान्ता पर्वतस्तनमण्डला ॥ ९३ ॥
पद्मप्रिया पद्मसंस्था पद्माक्षी पद्मसम्भवा । 
पद्मपत्रा पद्मपदा पद्मिनी प्रियभाषिणी ॥ ९४ ॥
पशुपाशविनिर्मुक्ता पुरन्ध्री पुरवासिनी ।
पुष्कला पुरुषा पर्वा पारिजातसुमप्रिया ॥ ९५ ॥
पतिव्रता पवित्राङ्गी पुष्पहासपरायणा ।
प्रज्ञावतीसुता पौत्री पुत्रपूज्या पयस्विनी ॥ ९६ ॥
पट्टिपाशधरा पङ्क्तिः पितृलोकप्रदायिनी ।
पुराणी पुण्यशीला च प्रणतार्तिविनाशिनी ॥ ९७ ॥
प्रद्युम्नजननी पुष्टा पितामहपरिग्रहा ।
पुण्डरिकपुरावासा पुण्डरिकसमानता ॥ ९८ ॥
पृथुजङ्गा पृथुभुजा पृथुपादा पृथूदरी ।
प्रवालशोभा पिङ्गाक्षी पीतवासाः प्रचापला ॥ ९९ ॥
प्रसवा पुष्टिदा पुण्या प्रतिष्ठा प्रणवागतिः ।
पञ्चवर्णा पञ्चवाणी पञ्चिका पञ्चरस्थिता ॥ १०० ॥
परमाया परज्योतिः परप्रीतिः परागतिः ।
पराकाष्ठा परेशानी पाविनी पावकद्युतिः ॥ १०१ ॥
पुण्यभद्रा परिच्छेदा पुष्पहासा पृथूदरी ।
पीताङ्गी पीतवसना पीतशय्या पिशाचिनी ॥ १०२ ॥
पीतक्रिया पिशाचघ्नी पाटलाक्षी पटुक्रिया ।
पञ्चभक्षप्रियाचारा पूतनाप्राणघातिनी ॥ १०३ ॥
पुन्नागवनमध्यस्था पुण्यतीर्थनिषेविता ।
पञ्चाङ्गी च पराशक्तिः परमाह्लादकारिणी ॥ १०४ ॥
पुष्पकाण्डस्थिता पूषा पोषिताखिलविष्टपा ।
पानप्रिया पञ्चशिखा पन्नगोपरिशायिनी ॥ १०५ ॥
पञ्चमात्रात्मिका पृथ्वी पथिका पृथुदोहिनी ।
पुराणन्यायमीमांसा पाटली पुष्पगन्धिनी ॥ १०६ ॥
पुण्यप्रजा पारदात्री परमार्गैकगोचरा ।
प्रवालशोभा पूर्णाशा प्रणवा पल्लवोदरी ॥ १०७ ॥
फलिनी फलदा फल्गुः फूत्कारी फलकाकृतिः ।
फणीन्द्रभोगशयना फणिमण्डलमण्डिता ॥ १०८ ॥
बालबाला बहुमता बालातपनिभांशुका ।
बलभद्रप्रिया वन्द्या वडवा बुद्धिसंस्तुता ॥ १०९ ॥
बन्दीदेवी बिलवती बडिशघ्नी बलिप्रिया ।
बान्धवी बोधिता बुद्धिर्बन्धूककुसुमप्रिया ॥ ११० ॥
बालभानुप्रभाकारा ब्राह्मी ब्राह्मणदेवता ।
बृहस्पतिस्तुता वृन्दा वृन्दावनविहारिणी ॥ १११ ॥
बालाकिनी बिलाहारा बिलवासा बहूदका ।
बहुनेत्रा बहुपदा बहुकर्णावतंसिका ॥ ११२ ॥
बहुबाहुयुता बीजरुपिणी बहुरुपिणी ।
बिन्दुनादकलातीता बिन्दुनादस्वरुपिणी ॥ ११३ ॥
बद्धगोधाङ्गुलित्राणा बदर्याश्रमवासिनी ।
वृन्दारका बृहत्स्कन्धा बृहती बाणपातिनी ॥ ११४ ॥
वृन्दाध्यक्षा बहुनुता वनिता बहुविक्रमा ।
बद्धपद्मासनासीना बिल्वपत्रतलस्थिता ॥ ११५ ॥
बोधिद्रुमनिजावासा बडिस्था बिन्दुदर्पणा ।
बाला बाणासनवती वडवानलवेगिनी ॥ ११६ ॥
ब्रह्माण्डबहिरन्तःस्था ब्रह्मकङ्कणसूत्रिणी ।
भवानी भीषणवती भाविनी भयहारिणी ॥ ११७ ॥
भद्रकाली भुजङ्गाक्षी भारती भारताशया ।
भैरवी भीषणकारा भूतिदा भूतिमालिनी ॥ ११८ ॥
भामिनी भोगनिरता भद्रदा भूरिविक्रमा ।
भूतवासा भृगुलता भार्गवी भूसुरार्चिता ॥ ११९ ॥
भागीरथी भोगवती भवनस्था भिषग्वरा ।
भामिनी भोगिनी भाषा भवानी भूरिदक्षिणा ॥ १२० ॥
भर्गात्मिका भीमवती भवबन्धविमोचिनी ।
भजनीया भूतधात्रीरञ्चिता भुवनेश्र्वरी ॥ १२१ ॥
भुजङ्गवलया भीमा भेरुण्डा भागधेयिनी ।
माता माया मधुमती मधुजिह्वा मधुप्रिया ॥ १२२ ॥
महादेवी महाभागा मालिनी मीनलोचना ।
मायातीता मधुमती मधुमांसा मधुद्रवा ॥ १२३ ॥
मानवी मधुसम्भूता मिथिलापुरवासिनी ।
मधुकैटभसंहर्त्री मेदिनी मेगहमालिनी ॥ १२४ ॥
मन्दोदरी महामाया मैथिली मसृणप्रिया ।
महालक्ष्मीर्महाकाली महाकन्या महेश्र्वरी ॥ १२५ ॥
माहेन्द्री मेरुतनया मन्दारकुसुमार्चिता ।
मञ्जुमञ्जीरचरणा मोक्षदा मञ्जुभाषिणी ॥ १२६ ॥
मधुरद्राविणी मुद्रा मलया मलयान्विता ।
मेधा मरकतश्यामा मागधी मेनकात्मजा ॥ १२७ ॥
महामारी महावीरा महाश्यामा मनुस्तुता ।
मातृका मिहिराभासा मुकुन्दपदविक्रमा ॥ १२८ ॥
मूलाधारस्थिता मुग्धा मणिपूरकवासिनी ।
मृगाक्षी महिषारुढा महिषासुरमर्दिनी ॥ १२९ ॥
योगासना योगगम्या योगा यौवनकाश्रया ।
यौवनी युद्धमध्यस्था यमुना युगधारिणी ॥ १३० ॥
यक्षिणी योगयुक्ता च यक्षराजप्रसूतिनी ।
यात्रा यानविधानज्ञा यदुवंशसमुद्भवा ॥ १३१ ॥
यकारादिहकारान्ता याज्ञुषी यज्ञरुपिणी ।
यामिनी योनिरता यातुधानभयंकरी ॥ १३२ ॥
रुक्मिणी रमणी रामा रेवती रेणुका रतिः ।
रौद्री रौद्रप्रियाकारा राममाता रतिप्रिया ॥ १३३ ॥
रोहिणी राज्यदा रेवा रमा राजीवलोचना ।
राकेशी रुपसम्पन्ना रत्नसिंहासनस्थिता ॥ १३४ ॥
रक्तमाल्याम्बरधरा रक्तगंधानुलेपना ।
राजहंससमारुढा रम्भा रक्तबलिप्रिया ॥ १३५ ॥
रमणीययुगाधारा राजिताखिलभूतला ।
रुरुचर्मपरीधाना रथिनी रत्नमालिका ॥ १३६ ॥
रोगेशी रोशमनी राविणी रोमहर्षिणी ।
रामचन्द्रपदाक्रान्ता रावणच्छेदकारिणी ॥ १३७ ॥
रत्नवस्त्रपरिच्छन्ना रथस्था रुक्मभूषणा ।
लज्जाधिदेवता लोला ललिता लिङ्गधारिणी ॥ १३८ ॥
लक्ष्मीर्लोला लुप्तविषा लोकिनी लोकविश्रुता ।
लज्जा लम्बोदरी देवी ललना लोकधारिणी ॥ १३९ ॥
वरदा वन्दिता विद्या वैष्णवी विमलाकृतिः ।
वाराही विरजा वर्षा वरलक्ष्मीर्विलासिनी ॥ १४० ॥
विनता व्योममध्यस्था वारिजासनसंस्थिता ।
वारुणी वेणुसम्भूता वीतिहोत्रा विरुपिणी ॥ १४१ ॥
वायुमण्डलमध्यास्था विष्णुरुपा विधिप्रिया ।
विष्णुपत्नी विष्णुमती विशालाक्षी वसुन्धरा ॥ १४२ ॥
वामदेवप्रिया वेला वज्रिणी वसुदोहिनी ।
वेदाक्षरपरीताङ्गी वाजपेयफलप्रदा ॥ १४३ ॥
वासवी वामजननी वैकुण्ठनिलया वरा ।
व्यासप्रिया वर्मधरा वाल्मीकिपरिसेविता ॥ १४४ ॥
शाकम्भरी शिवा शान्ता शारदा शरणागतिः ।
शातोदरी शुभाचारा शुम्भासुरविमर्दिनी ॥ १४५ ॥
शोभावती शिवाकारा शंकरार्द्धशरिरीणी ।
शोणा शुभाशया शुभ्रा शिरःसंधानकारिणी ॥ १४६ ॥
शरावती शरानन्दा शरज्ज्योत्स्ना शुभानना ।
शरभा शूलिनी शुद्धा शबरी शुकवाहना ॥ १४७ ॥
श्रीमती श्रीधरानन्दा श्रवणानन्ददायिनी ।
शर्वाणी शर्वरीवन्द्या षड्भाषा षडृतुप्रिया ॥ १४८ ॥
षडाधारस्थिता देवी षण्मुखप्रियकारिणी ।
षडङ्गरुपसुमतिसुरासुरनमस्कृता ॥ १४९ ॥
सरस्वती सदाधारा सर्वमङ्गलकारिणी ।
सामगानप्रिया सूक्ष्मा सावित्री सामसम्भवा ॥ १५० ॥
सर्वावासा सदानन्दा सुस्तनी सागराम्बरा ।
सर्वैश्र्वर्यप्रिया सिद्धिः साधुबन्धुपराक्रमा ॥ १५१ ॥
सप्तर्षिमण्डलगता सोममण्डलवासिनी ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ १५२ ॥
सर्वोतुङ्गा सङ्गहीना सद्गुणा सकलेष्टदा । 
सरघा सूर्यतनया सुकेशी सोमसंहतिः ॥ १५३ ॥
हिरण्यवर्णा हरिणी हृींकारी हंसवाहिनी ।
क्षौमवस्त्रपरीताङ्गी क्षीराब्धितनया क्षमा ॥ १५४ ॥
गायत्री चैव सावित्री पार्वती च सरस्वती ।
वेदगर्भा वरारोहा श्रीगायत्री पराम्बिका ॥ १५५ ॥
इति साहस्त्रकं नाम्नां गायत्र्याश्चैव नारद ।
पुण्यदं सर्वपापघ्नं महासम्पत्तिदायकम् ॥ १५६ ॥
एवं नामानि गायत्र्यास्तोषोत्पत्तिकराणि हि ।
अष्टम्यां च विशेषेण पठितव्यं द्विजैः सह ॥ १५७ ॥
जपं कृत्वा होमपूजा ध्यानं कृत्वा विशेषतः ।
यस्मै कस्मै न दातव्यं गायत्र्यास्तु विशेषतः ॥ १५८ ॥
सुभक्ताय सुशिष्याय वक्तव्यं भूसुराय वै ।
भ्रष्टेभ्यः साधकेभ्यश्र्च बान्धवेभ्यो न दर्शयेत् ॥ १५९ ॥
यद्गृहे लिखितं शास्त्रं भयं तस्य न कस्यचित् ।
चञ्चलापि स्थिरा भूत्वा कमला तत्र तिष्ठति ॥ १६० ॥
इदं रहस्यं परमं गुह्याद् गुह्यतरं महत् पातकान्मु
पुण्यप्रदं मनुष्याणां दरिद्राणां निधिप्रदम् ॥ १६१ ॥
मोक्षप्रदं मुमुक्षूणां कामिनां सर्वकामदम् ।
रोगाद्वै मुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ १६२ ॥
ब्रह्महत्यासुरापानसुवर्णस्तेयिनो नराः ।
गुरुतल्पगतो वापि पातकान्मुच्यते सकृत् ॥ १६३ ॥
असत्प्रतिग्रहाच्चैवाभक्ष्यभक्षाद्विशेषतः ।
पाखण्डानृतमुखेभ्यः पठनादेव मुच्यते ॥ १६४ ॥
इदं रहस्यमलं मयोक्तं पद्मजोद्भव ।
ब्रह्मसायुज्यदं नृणां सत्यं सत्यं न संशयः ॥ १६५ ॥
॥ इति श्रीदेवीभागवते षष्ठ अध्याये गायत्री सहस्त्रनामस्तोत्रं संपूर्णम् ॥

Gayatri SahasraNam 
श्रीगायत्री सहस्त्रनाम


Custom Search

No comments: