Saturday, August 30, 2014

Shri GaneshAshtakam श्रीगणेशाष्टकम्



Shri GaneshAshtakam 
Shri GaneshAshtakam is in Sanskrit. It is from Ganesh Purana, UpasanaKhanda. In the falashruti God Ganesh himself telling that whosoever recites this stotra for three days everyday three times then all his work where he expects success will be completed. the person who recites this Ashtak stotra on every Chaturthi for eight such Chaturthies he is blessed with eight sidhies. The person who recites this stotra ten times every day for a month will become free from any custody or from king's punishment. The person who wants Knowledge will be blessed with knowledge. Who wants money will receive money. who is desirous of a son; will become a father of son. Anybody desiring of many things will receive all on reciting this stotra 21 times everyday.


श्रीगणेशाष्टकम्
श्रीगणेशाय नमः ॥
सर्वे ऊचुः ॥
यतोऽनन्तशक्तेरनन्ताश्र्च जीवा 
यतो निर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं 
सदा तं गणेशं नमामो भजामः ॥ १ ॥
यतश्र्चाविरासीज्जगत्सर्वमेतत् 
तथाब्जासनो विश्र्वगो विश्र्वगोप्ता ।
तथेन्द्रादयो देवसंघा मनुष्याः 
सदा तं गणेशं नमामो भजामः ॥ २ ॥
यतो वह्निभानू भवो भूर्जलं च
यताः सागराश्र्चद्रमा व्योम वायुः ।
यतः स्थावरा जंगमा वृक्षसंघाः
सदा तं गणेशं नमामो भजामः ॥ ३ ॥
यतो दानवाः किन्नरा यक्षसंघा
यतश्र्चारणा वारणाः श्र्वापदाश्र्च ।
यतः पक्षिकीटा यतो वीरुधश्र्च 
सदा तं गणेशं नमामो भजामः ॥ ४ ॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोः
यतः संपदो भक्तसंतोषिकाः स्युः ।
यतो विघ्ननाशो यतो कार्यसिद्धिः 
सदा तं गणेशं नमामो भजामः ॥ ५ ॥
यतः पुत्रसंपद् यतो वांछितार्थो 
यतोऽभक्तविघ्नास्तथाऽनेकरुपाः ।
यतः शोकमोहो यतः काम एव 
सदा तं गणेशं नमामो भजामः ॥ ६ ॥
यतोऽनन्तशक्तिः स शेषो बभूव 
धराधारणेऽनेकरुपे च शक्तः ।
यतोऽनेकधा स्वर्गलोकाहि नाना 
सदा तं गणेशं नमामो भजामः ॥ ७ ॥
यतो वेदवाचो विकुण्ठा नमोमिः
सदा नेति नेतीति यत्ता गृणन्ति ।
परब्रह्मरुपं चिदानन्दभूतं 
सदा तं गणेशं नमामो भजामः ॥ ८ ॥
श्रीगणेश उवाच ॥
पुनरुचे गणाधीशः स्तोत्रमेतत्पठेन्नरः ।
त्रिसन्ध्यं त्रिदिनं तस्य सर्वं कार्यं भविष्यति ॥ ९ ॥
यो जपेदष्टदिवसं श्र्लोकाष्टकमिदं शुभम् ।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १० ॥
यः पठेन्मासमात्रं तु दशवारं दिने दिने ।
स मोचयेद्बन्धगतं राजवध्यं न संशयः ॥ ११ ॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् ।
वाञ्छितॉंल्लभते सर्वानेकविशतिवारतः ॥ १२ ॥
यो जपेत्परया भक्त्या गजाननपरो नरः ।
एवमुक्त्वा ततो देवश्र्चान्तर्धानं गतः प्रभुः ॥ १३ ॥

॥ इति श्रीगणेशपुराणे उपासनाखण्डे श्रीगणेशाष्टकं संपूर्णम् ॥
Shri GaneshAshtakam 
 श्रीगणेशाष्टकम्


Custom Search

No comments: