Tuesday, September 30, 2014

RatriSuktatmkam Devi Stotram रात्रिसूक्तात्मकं देवी स्तोत्रम्


RatriSuktatmkam Devi Stotram 
RatriSuktatmkam Devi Stotram is in Sanskrit. It is a praise of Goddess Durga Devi. Shortly her very important deeds for the benefit of people and other Gods are mentioned. It is mentioned that she killed Demon Raktbij, Shumha-Nishumbha and Mahishasur.

रात्रिसूक्तात्मकं देवी स्तोत्रम् 
रात्रिदेवीं प्रपद्येऽहं शरणागतवत्सलाम् ।
करालवदनां कृष्णां दुष्टग्रहविनाशिनीम् ॥ १ ॥
नमामि खड्गहस्तां तां खेटहस्तां भयानकाम् ।
वरदाभयहस्तां च भक्तलोकभयापहाम् ॥ २ ॥
शूलहस्तां शंखचक्रगदाचापेषुधारिणीम् ।
चतुर्भुजामष्टभुजां द्विभुजामरिमर्दिनीम् ॥ ३ ॥
अष्टादशभुजां लक्ष्मीं दशहस्तां सरस्वतीम् ।
सर्वसम्पत्प्रदात्रीं च सर्वविद्याप्रदायिनीम् ॥ ४ ॥
सहस्त्रबाहुचरणां सहस्त्रमुखलोचनाम् ।
सहस्त्रमुकुटोपेतां सहस्त्रचरणाम्बुजाम् ॥ ५ ॥
पद्मयोनिमुखाब्जस्थां विष्णुवक्षःस्थळस्थिताम् ।
शिवाङ्कनिलयां गौरीं वन्दे मूर्तित्रयात्मिकाम् ॥ ६ ॥
आभट्या वैष्णवी चोग्रा कुलानि विबुधद्विषाम् ।
या निर्दहति रक्ताक्षी तां वन्दे सिंहवाहनाम् ॥ ७ ॥
मधुकैटभसंहारं महिषासुरमर्दनम् ।
याऽकरोन्योमि दुर्गा तां वधं शुम्भनिशुम्भयोः ॥ ८ ॥
इन्द्रादिसर्वदेवानां सूर्यादिज्योतिषामपि ।
सर्वशक्तिस्वरुपा या रात्रीं तां प्रणमाम्यहम् ॥ ९ ॥
रात्रिसूक्तं जपेद्रात्रौ त्रिवारं च दिने दिने ।
भूतप्रेतपिशाचादिचोरसर्पादिनाशनम् ॥ १० ॥
॥ इति रात्रिसूक्तात्मकदेवीस्तोत्रं सम्पूर्णम् ॥

RatriSuktatmkam Devi Stotram 
 रात्रिसूक्तात्मकं देवी स्तोत्रम्


Custom Search

No comments: