Saturday, September 27, 2014

Shri Bhuvaneshwari Kavacham श्री भुवनेश्र्वरी कवचम्


Shri Bhuvaneshwari Kavacham 
Shri Bhuvaneshwari Kavacham is in Sanskrit. It is a discussion between Goddess Durga Devi and God Shiva. It is from Rudrayamal Tantre. Falashruti: It is said in the sholaks from 19 to 25 that what are the benefits of reciting/listening this kavacham are. It is said that this is a very pious kavacham and it is a very big source of Vidya, knowledge. Kuber has become rich because of reciting this kavacham. God Indra has also become king of Gods. All sidhies and all happiness, money, property and richness and knowledge is received by reciting it daily with faith, concentration and devotion for a year. Male should ware this Kavacham on the right hand and woman on left. Even a bare woman becomes mother of many sons (issues).
श्री भुवनेश्र्वरी कवचम्
देवि उवाच
देवेश भुवनेश्र्वर्या या या विद्याः प्रकाशिताः ।
श्रुताश्र्च अधिगताः सर्वाः श्रोतुं इच्छामि सांप्रतम् ॥ १ ॥
त्रैलोक्य मङ्गलं नाम कवचं यत् पुरोदितम् । 
कथयस्व महादेव मम प्रीतिकरं परम् ॥ २ ॥
ईश्र्वर उवाच 
श्रुणु पार्वति वक्ष्यामि सावधानावधारय ।
त्रैलोक्य मङ्गलं नाम मन्त्र विग्रहम् ॥ ३ ॥
सिद्धविद्यामयं देवि सर्वैश्र्वर्य समन्वितम् ।
पठनात् धारणात् मर्त्यः त्रैलोकैश्र्वर्य भाग्भवेत् ॥ ४ ॥
ॐ अस्य श्री भुवनेश्र्वरी त्रैलोक्य मङ्गल कवचस्य 
शिव ऋषिः, विराट् छन्दः 
जगदात्री भुवनेश्र्वरी देवता 
धर्मार्थ काम मोक्षार्थे जपे विनियोगः ॥
हृीं बीजं मे शिरः पातु भुवनेशी ललाटकम् ।
ऐं पातु दक्षनेत्रं मे हृीं पातु वामलोचनम् ॥ १ ॥
श्रीं पातु दक्षकर्णं मे त्रिवर्णात्मा महेश्र्वरी ।
वामकर्ण सदा पातु ऐं घ्राणं पातु मे सदा ॥ २ ॥
हृीं पातु वदनं देवि ऐं पातु रसनां मम ।
वाक्पुटा च त्रिवर्णात्मा कण्ठं पातु परात्मिका ॥ ३ ॥
श्रीं स्कन्धौ पातु नियतं हृीं भुजौ पातु सर्वदा ।
क्लीं करौ त्रिपुटा पातु त्रिपुर ऐश्र्वर्य प्रदायिने ॥ ४ ॥
ॐ पातु हृदयं हृीं मे मध्यदेशं सदावतु ।
क्रौं पातु नाभिदेशं मे त्र्यक्षरी भुवनेश्र्वरी ॥ ५ ॥
सर्वबीजप्रदा पृष्ठं पातु सर्वशङ्करी ।
हृीं पातु गुह्यदेशं मे नमो भगवती कटिम् ॥ ६ ॥
माहेश्र्वरी सदा पातु शङ्खिनी जानु युग्मकम् ।
अन्नपूर्णा सदा पातु स्वाहा पातु पदद्वयम् ॥ ७ ॥
सप्तदशाक्षरा पायाद् अन्नपूर्णाखिलं वपुः ।
तारं माया रमाकामः षोडशार्णा ततः परम् ॥ ८ ॥
शिरःस्था सर्वदा पातु विंशत्यर्णात्मिका परा ।
तार दुर्गे युगं रक्षिणी स्वाहेति दशाक्षरा ॥ ९ ॥
जयदुर्गा घनश्यामा पातु मां सर्वतो मुदा ।
मायाबीजादिका चैषा दशार्णा च ततः परा ॥ १० ॥
उत्तप्त काञ्चन आभासा जयदुर्गा आननेऽवतु ।
तारं हृीं दुं च दुर्गायै नमोऽष्टात्मिका परा ॥ ११ ॥
शङ्ख चक्र धनुर्बाणधरा मां दक्षिणेऽवतु ।   
महिषामर्दिनी स्वाहा वसुवर्णात्मिका परा ॥ १२ ॥
नैऋत्यां सर्वदा पातु महिषासुरनाशिनी ।
माया पद्मावती स्वाहा सप्तार्णा परिकीर्तिता ॥ १३ ॥
पद्मावती पद्मसंस्था पश्र्चिमे मां सदाऽवतु ।
पाशाङ्कुशपुटा मायो स्वाहा हि परमेश्र्वरी ॥ १४ ॥
त्रयोदशार्णा ताराद्या अश्र्वारुढा अनलेऽवतु ।
सरस्वति पञ्चस्वरे नित्यक्लिन्ने मद्द्रवे ॥ १५ ॥
स्वाहा वस्वक्षरा विद्या उत्तरे मां सदाऽवतु ।
तारं माया च कवचं खे रक्षेत् सततं वधूः ॥ १६ ॥
हूँ क्षें हृीं फट् महाविद्या द्वादशाणं अखिलप्रदा ।
त्वरिताष्टाहिभिः पायात् शिवकोणे सदाच माम् ॥ १७ ॥ 
ऐं क्लीं सौः सततं बाला मूर्धदेशे ततोऽवतु ।
बिन्द्वान्ता भैरवी बाला हस्तौ मां च सदाऽवतु ॥ १८ ॥
इति ते कथितंपुण्यं त्रैलोक्य मङ्गलं परम् ।
सारात्सारतरं पुण्यं महाविद्यौघ विग्रहम् ॥ १९ ॥
अस्यापि पठनात् सद्यः कुबेरोऽपि धनेश्र्वरः ।
इन्द्राद्याः सकला देवा धारणात् पठनाद्यतः ॥ २० ॥
सर्व सिद्धीश्र्वराः सन्तः सर्वैश्र्वर्यं अवाप्नुयुः ।
पुष्पाञ्जल्य अष्टकं दद्यान् मूलेनैव पृथक् पृथक् ॥ २१ ॥
संवत्सर कृतायास्तु पूजायाः फलं आप्नुयात् ।
प्रीतिमन्यो अन्यतः कृत्वा कमला निश्र्चला गृहे ॥ २२ ॥
वाणी च निवसेत् वक्त्रे सत्यं सत्यं न संशयः ।
यो धारयति पुण्यात्मा त्रैलोक्य मङ्गलाभिधम् ॥ २३ ॥
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः ।
सर्वैश्र्वर्य युतो भूत्वा त्रैलोक्य विजयी भवेत् ॥ २४ ॥
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ।
बहुपुत्रवती भूयात् वन्ध्यापि लभते सुतम् ॥
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृतन्ति तं जनम् ॥ २५ ॥
एतत् कवचमज्ञात्वा यो भजेत् भुवनेश्र्वरीम् ।
दारिद्र्यं परमं प्राप्य सोऽचिरान्मृत्युमाप्नुयात् ॥ २६ ॥

॥ इति श्री रुद्रयामले तन्त्रे देवि ईश्र्वर संवादे त्रैलोक्य मङ्गलं नाम भुवनेश्र्वरी कवचं संपूर्णम् ॥

Shri Bhuvaneshwari Kavacham 
श्री भुवनेश्र्वरी कवचम्


Custom Search

No comments: