Monday, September 1, 2014

Shri Ganapati MangalaAshtakam श्रीगणपति मङ्गलाष्टकम्



Shri Ganapati MangalaAshtakam 
Shri Ganapati MangalaAshtakam is in Sanskrit. It is a praise of God Ganapati.It is the description of what God has done good for us.


श्रीगणपति मङ्गलाष्टकम्
श्रीगणेशाय नमः ॥
गजाननाय गांगेय सहजाय सदात्मने ।
गौरीप्रियतनुजाय गणेशायास्तु मङ्गलम् ॥ १ ॥
नागयज्ञोपवीताय नतविघ्नविनाशिने ।
वन्द्यादिगणनाथाय नायकास्तु मङ्गलम् ॥ २ ॥
इभवक्त्राय चन्द्रादिवन्दिताय चिदात्मने ।
ईशानप्रेमपात्राय चेष्टादायास्तु मङ्गलम् ॥ ३ ॥
सुमुखाय सुशुण्डाप्रोक्षिप्तामृतघटाय च ।
सुरवृन्दनिवेशाय सुखदायास्तु मङ्गलम् ॥ ४ ॥
चतुर्भुजाय चन्द्रार्थविलसन्मस्तकाय च ।
चरणावनतानन्ततारणायास्तु मङ्गलम् ॥ ५ ॥
वक्रतुण्डाय बटवे बन्धाय वरदाय च ।
विरुपाक्षसुतायास्तु विघ्ननाशाय मङ्गलम् ॥ ६ ॥
प्रमोदामोदरुपाय सिद्धिविज्ञानरुपिणे ।
प्रकृष्टपापनाशाय फलदायासतु मङ्गलम् ॥ ७ ॥
मङ्गलम् गणनाथाय मङ्गलं हरसूनवे ।
मङ्गलं विघ्नराजाय विघ्नहर्त्रेऽस्तु मङ्गलम् ॥ ८ ॥
श्लोकाष्टकमिदं पुण्यं मङ्गलप्रदमादरान् ।
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये ॥ ९ ॥

॥ इति श्री गणपतिमङ्गलाष्टकं संपूर्णम् ॥
Shri Ganapati MangalaAshtakam श्रीगणपति मङ्गलाष्टकम्


Custom Search

No comments: