Monday, September 29, 2014

ShriMahalaxmi Stotram श्रीमहालक्ष्मी स्तोत्रम्


ShriMahalaxmi Stotram 
Shri Mahalaxmi Stotram is in Sanskrit. It is a very beautiful creation of Sri SridharSwami. He was a disciple of Ramdas Swami. SridharSwami has created many stotras.
श्रीमहालक्ष्मी स्तोत्रम्
सर्वसौभाग्यरुपा त्वं सर्वसम्पत्स्वरुपिणी । 
सर्वकल्याणरुपा त्वं महालक्ष्मि नमोऽस्तु ते ॥ १ ॥
जनश्रीस्त्वं वनश्रीस्त्वं मङ्गलश्रीः स्वभावतः ।
ब्रह्मश्रीश्र्च मोक्षश्रीश्र्च महालक्ष्मि नमोऽस्तु ते ॥ २ ॥ 
शान्तिस्तुष्टिस्तथापुष्टिर्मेधा कीर्तिश्र्च सन्मतिः ।
दैविसमपत्स्वरुपा त्वं महालक्ष्मि नमोऽस्तु ते ॥ ३ ॥
मोक्षसाधनसम्पत्तिरायुरारोग्यसंसृतिः ।
सर्वैश्र्वर्यस्वरुपा त्वं महालक्ष्मि नमोऽस्तु ते ॥ ४ ॥
भक्तियोगा ब्रह्मनिष्ठात्वमेवैकाखिलेश्र्वरी ।
तदैव ब्रह्मरुपा च महालक्ष्मि नमोऽस्तु ते ॥ ५ ॥
सच्चिदानन्दरुपा त्वं जगन्माता जगत्पिता ।
विष्णुब्रह्ममहेशास्त्वं महालक्ष्मि नमोऽस्तु ते ॥ ६ ॥ 
यतो हि जायते विश्र्वं यतश्र्च परिपाल्यते ।
यस्मिन् संलीयते ह्यन्ते महालक्ष्मि नमोऽस्तु ते ॥ ७ ॥ 
यच्च किञ्चित् सुष्ठुजातं यच्च किञ्चित् शुभं सुखम् ।
तदेवैकात्मरुपेण महालक्ष्मि नमोऽस्तु ते ॥ ८ ॥ 
वेदस्मृतिः सदाचार आत्मतुष्टिर्गुरोः कृपा ।
सर्वोपास्यस्वरुपा त्वं महालक्ष्मि नमोऽस्तु ते ॥ ९ ॥ 
वशमेवाद्वयं ब्रह्म नित्यानन्दैकमात्रतः । 
भेदबुद्धिमपास्यैवं महालक्ष्मि नमोऽस्तु ते ॥ १० ॥
॥ इती श्री श्रीधरस्वामी विरचितम् महालक्ष्मिस्तोत्रं संपूर्णम् ॥

ShriMahalaxmi Stotram 
श्रीमहालक्ष्मी स्तोत्रम्


Custom Search

No comments: