Saturday, October 25, 2014

DevKrutLakshmi Stotram देवकृतलक्ष्मीस्तोत्रम्


DevKrutLakshmi Stotram 
DevKrutLakshmi Stotram is in Sanskrit. It is Stuti (Praise) of Goddess by all Gods.
देवकृतलक्ष्मीस्तोत्रम्
क्षमस्व भगवत्यंब क्षमाशीले परात्परे ।
शुद्धसत्त्वस्वरुपे च कोपादिपरिवर्जिते ॥ १ ॥
उपमे सर्वसाध्वीनां देवीनां देवपूजिते ।
त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥ २ ॥
सर्वसंपत्स्वरुपा त्वं सर्वेषां सर्वरुपिणी । 
रासेश्र्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोपितः ॥ ३ ॥
कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका ।
स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्तलक्ष्मीच भूतले ॥ ४ ॥
वैकुंठे च महालक्ष्मीर्देवदेवी सरस्वती ।
गंगा च तुलसी त्वं च सावित्रीब्रह्मलोकतः ॥ ५ ॥
कुष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् ।
रासे रासेश्र्वरी त्वं च वृंदावनवने वने ॥ ६ ॥
कृष्णप्रिया त्वं भांडीरे चंद्रा चंदनकानने ।
विरजा चंपकवने शतशृंगे च सुंदरी ॥ ७ ॥
पद्मावती पद्मवने मालती मालतीवने ।
कुंददंती कुंदवने सुशीला केतकीवने ॥ ८ ॥
कदंबमाला त्वं देवी कदंबकाननेऽपि च ।
राजलक्ष्मी राजगेहे गृहलक्ष्मीर्गृहे गृहे ॥ ९ ॥
इत्युक्ता देवताः सर्वा मुनयो मनवस्तथा ।
रुरुदुर्नम्रवदनाः शुष्ककंठोष्टतालुकाः ॥ १० ॥
इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् ।
यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद् ध्रुवम् ॥ ११ ॥
अभार्यो लभते भार्यां विनीतां सुसुतां सतीम् ।
सुशीलां सुंदरीं रम्यामतिसुप्रियवादिनीम् ॥ १२ ॥
पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् ।
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् ॥ १३ ॥
परमैश्र्वर्ययुक्तं च विद्यावंतं यशस्विनम् ।
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४ ॥
हतबंधुर्लभेद्बंधुं धनभ्रष्टो धनं लभेत् ।
कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेदध्रुवम् ॥ १५ ॥
सर्वमंगलदं स्तोत्रं शोकसंतापनाशनम् ।
हर्षानंदकरं शश्र्वद्धर्ममोक्षसुहृत्प्रदम् ॥ १६ ॥

॥ इति श्रीदेवकृतं लक्ष्मीस्तोत्रमं संपूर्णम् ॥

DevKrutLakshmi Stotram 
देवकृतलक्ष्मीस्तोत्रम्


Custom Search

No comments: