Monday, November 9, 2015

JaganMangal KavachaStotram जगन्मङ्गलकवचस्तोत्रम्


JaganMangal KavachaStotram 
JaganMangal KavachaStotram is in Sanskrit. It is a God Krishna Kavachma. It is told to Santkumar by God Brahma. Earlier God Shrikrishna told it to God Brahma. By this Kavacham God Indra and other became prosperous. Narayan is Rushi and Chanda is Savitri. My head be protected by Radhesho, Throat be protected by Radeshwara, eyes by Gopishaha, Middle of the head by god, eyers by Govinda, neck by Gadadhar, Sholders by God Krishna, Cheast by Vasudev, stomach by Achuta, Nabhi by Padmanabha, Kakal by God who killed Kansa, God Purushottam my back, Pundrik my both feet, and God Hari protect my both hands. This Kavacam gives every thing wished by the devotee who recites or listens it. It gives Moksha after death.
जगन्मङ्गलकवचस्तोत्रम्
श्रीगणेशाय नमः ॥ श्रीराधारमणाय नमः ॥
श्रीसनत्कुमार उवाच ।
ब्रूहि मे कवचं ब्रह्मन् जगत्मङ्गलमङ्गलम् ।
पूज्यं पुण्यस्वरुपं च कृष्णस्य परमात्मनः ॥ १ ॥
ब्रह्मोवाच ।
श्रृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् ।
श्रीकृष्णेनैव कथितं मह्यं च कृपया पुरा ॥ २ ॥
मया दत्तं च धर्माय तेन नारायणर्पये ।
ऋषिणा तेन तद्दत्तं सुभद्राय महात्मने ॥ ३ ॥
अतुगुह्यतमं शुद्धं परं स्नेहाद्वदाम्यहम् ।
यद्श्रृत्वा पठनात्सिद्धाः सिद्ध्यादि प्राप्नुवंति च ॥ ४ ॥
एवमिन्द्रादयः सर्वे सर्वैश्र्वर्यमवाप्नुयुः ।
ऋषिश्र्छन्दश्र्च सावित्री देवो नारायणः स्वयम् ॥ ५ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
ॐ राधेशो मे शिरः पातु कठं राधेश्र्वरः स्वयम् ॥ ६ ॥
गोपीशश्र्चक्षुषी पातु तालुं च भगवान्स्वयम् ।
गंडयुग्मं च गोविंदः कर्णयुग्मं च केशवः ॥ ७ ॥
गलं गदाधरः पातु स्कंधं कृष्णः स्वयंप्रभुः ।
वक्षःस्थलं वासुदेवश्र्चोदरं चापि सोऽच्युतः ॥ ८ ॥
नाभिं पातु पद्मनाभः कंकालं कंससूदनः ।
पुरुषोत्तमः पातु पृष्ठं नित्यानंदो नितंबकम् ॥ ९ ॥
पुंडरीकः पादयुग्मं हस्तयुग्मं हरिः स्वयं ।
नासां च नखरं पातु नरसिंहः स्वयंप्रभुः ॥ १० ॥
सर्वेश्र्वरश्र्च सर्वांगं सततं मधुसूदनः ।
प्राच्यां पातु च रामश्र्च वह्नौ वंशीधरः स्वयम् ॥ ११ ॥
पातु दामोदरो दक्षे नैर्ऋत्ये च नरोत्तमः ।
पश्र्चिमे पुंडरीकाक्षो वायव्यां वामनः स्वयम् ॥ १२ ॥
अनंतश्र्चोत्तरे पातु ऐशान्यामीश्र्वरः स्वयम् ।
जले स्थले चांतरिक्षे स्वप्ने जागरणे तथा ॥ १३ ॥
पातु वृंदावनेशश्र्च मां भक्तं शरणागतम् । 
इति ते कथितं वत्स कवचं परमाद्भुतम् ॥ १४ ॥
सुखदं मोक्षदं सारं सर्वसिद्धिप्रदं सताम् ।
इदं कवचमिष्टं च पूजाकाले च यः पठेत् ॥ १५ ॥
हरिदास्यमवाप्नोति गोलोके वा समुत्तमम् ।
इहैव हरिभक्तिं च जीवन्मुक्तो भवेन्नरः ॥ १६ ॥
॥ इति नारदपंचरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मनारदसंवादे

जगन्मङ्गलकवचं संपूर्णम् ॥    
  
JaganMangal KavachaStotram 
जगन्मङ्गलकवचस्तोत्रम्


Custom Search

No comments: