Wednesday, May 4, 2016

Dhundiraj BhujangPrayat Stotram ढुंढिराजभुजंगप्रयात स्तोत्रम्


Dhundiraj BhujangPrayat Stotram 
Dhundiraj BhujangPrayat Stotram is in Sanskrit.
ढुंढिराजभुजंगप्रयात स्तोत्रम्
श्रीगणेशाय नमः ।
उमांगोद्भवं दंतिवक्त्रं गणेशं भजे कङ्कणैः शोभितं धूम्रकेतुम् ।
गले हारमुक्तावलीशोभितं तं नमो ज्ञानरुपं गणेशं नमस्ते ॥ १ ॥
गणेशैकदन्तं शुभं सर्वकार्ये स्मरन्मन्मुखं ज्ञानदं सर्वसिद्धिम् ।
मनश्र्चिन्तितं कार्यसिद्धिर्भवेत्तं नमो बुद्धिकान्तं गणेशं नमस्ते ॥ २ ॥
कुठारं धरन्तं कृतं विघ्नराजं चतुर्भिर्मखैरेकदंतैकवर्णम् ।
इदं देवरुपं गणं सिद्धिनाथं नमो भालचन्द्रं गणेशं नमस्ते ॥ ३ ॥
शिरःसिन्दुरं कुङ्कुमं देहवर्ण शुभैभादिकं प्रीयते विघ्नरजम् ।
महासंकटच्छेदने धूम्रकेतुं नमो गौरिपुत्रं गणेशं नमस्ते  ॥ ४ ॥
तथा पातकं छेदितुं विष्णुनाम तथा ध्यायतां शंकरं पापनाशम् ।
यथा पूजितं षण्मुखं शोकनाशं नमो विघ्ननाशं गणेशं नमस्ते ॥ ५ ॥
सदा सर्वदा ध्यायतामेकदन्तं सदा पूजितं सिन्दुरारक्तपुष्पैः ।
सदा चर्चितं चन्दनैः कुङ्कुमाक्तं नमो ज्ञानरुपं गणेशं नमस्ते ॥ ६ ॥
नमो गौरिदेहमलोत्पन्न तुभ्यं नमो ज्ञानरुपं नमः सिद्धिपं तम् ।
नमो ध्यायतामर्चतां बुद्धिदं तं नमो गौर्यपत्यं गणेशं नमस्ते ॥ ७ ॥
भुजङ्गप्रयातं पठेद्यस्तु भक्त्या प्रभाते नरस्तन्मयैकाग्रचित्तः ।
क्षयं यान्ति विघ्ना दिशः शोभयन्तं नमो ज्ञानरुपं गणेशं नमस्ते ॥ ८ ॥
॥ इति श्रीढुंढिराजभुजंगप्रयात स्तोत्रं संपूर्णम् ॥ 
Dhundiraj BhujangPrayat Stotram ढुंढिराजभुजंगप्रयात स्तोत्रम्



Custom Search

No comments: