Tuesday, July 5, 2016

TlujapurVasini Stotra तुलजापुरवासिनी स्तोत्रं


TlujapurVasini Stotra 
TlujapurVasini Stotra is in Sanskrit. It is a beautiful creation of P.P. Vasudevanand Saraswati. It is done while he visited Tuljabhavani temple.
तुलजापुरवासिनी स्तोत्रं
नमोऽस्तु ते महादेवि शिवे कल्याणि शांभवि ।
प्रसीद वेदविनुते जगदम्ब नमोऽस्तु ते ॥ १ ॥
जगतामादिभूता त्वं जगत्त्वं जगदाश्रया ।
एकाऽप्यनेकरुपासि जगदम्ब नमोऽस्तु ते ॥ २ ॥
सृष्टिस्थितिविनाशानां हेतुभूते मुनिस्तुते ।
प्रसीद देवविनुते जगदम्ब नमोऽस्तु ते ॥ ३ ॥
सर्वेश्वरि नमस्तुभ्यं सर्वसौभाग्यदायिनि ।
सर्वशक्तियुतेऽनन्ते जगदम्ब नमोऽस्तु ते ॥ ४ ॥
विविधारिष्टशमनि त्रिविधोत्पातनाशिनि ।
प्रसीद देवि ललिते जगदम्ब नमोऽस्तु ते ॥ ५ ॥
प्रसीद करुणासिन्धो त्वत्तः कारुणिका परा ।
यतो नास्ति महादेवि जगदम्ब नमोऽस्तु ते ॥ ६ ॥
शत्रून्जहि जयं देहि सर्वान्कामांश्च देहि मे ।
भयं नाशय रोगांश्च जगदम्ब नमोऽस्तु ते ॥ ७ ॥
जगदम्ब नमोऽस्तु ते हिते जय शम्भोर्दयिते महामते ।
कुलदेवि नमोऽस्तु ते सदा हृदि मे तिष्ठ यतोऽसि सर्वदा ॥ ८ ॥
तुलजापुरवासिन्या देव्याः स्तोत्रमिदं परम् ।
यः पठेत्प्रयतो भक्त्या सर्वान्कामान्स आप्नुयात् ॥ ९ ॥
॥ इति श्रीमत् परमहंस परिव्राजकाचार्य श्रीवासुदेवानंदसरस्वतीविरचितं श्रीतुलजापुरवासिन्यादेव्याः स्तोत्रं संपूर्णम् ॥
TlujapurVasini Stotra 
तुलजापुरवासिनी स्तोत्रं


Custom Search

No comments: