Tuesday, August 23, 2016

Bhuvaneshwari Katyayani Stutihi भुवनेश्र्वरीकात्यायनीस्तुतिः


Bhuvaneshwari Katyayani Stutihi 
Bhuvaneshwari Katyayani Stutihi is in Sanskrit. It is from Markandeya Purana.
भुवनेश्र्वरीकात्यायनीस्तुतिः 
ध्यानम्
ॐ बालरविद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥
स्तुतिः
देवि प्रपन्नार्तिहरे प्रसीद 
प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं 
त्वमीश्वरी देवि चराचरस्य ॥ १ ॥
आधारभूता जगतस्त्वमेका
महीस्वरुपेण यतः स्थितासि ।
अपां स्वरुपस्थितया त्वयैत-
दाप्यायते कृत्स्नमलङ्घ्यवीर्ये ॥ २ ॥
त्वं वैष्णवी शक्तिरनन्तवीर्या 
विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत् 
त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ३ ॥
विद्याः समस्तास्तव देवि भेदाः 
स्त्रियः समस्ताः सकला जगत्सु ।
त्वयैकया पूरितमम्बयैतत् 
का ते स्तुतिः स्तव्यपरा परोक्तिः ॥ ४ ॥
सर्वभूता यदा देवि स्वर्गमुक्तिप्रदायिनी ।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥ ५ ॥ 
सर्वस्य बुद्धिरुपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥ ६ ॥ 
कलाकाष्ठादिरुपेण परिणामप्रदायिनि ।
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥ ७ ॥ 
सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ॥ ८ ॥ 
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥ ९ ॥ 
शरणागतदीनार्तपरित्राणपरायणे 
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ १० ॥ 
हंसयुक्तविमानस्थे ब्रह्माणीरुपधारिणी ।
कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥ ११ ॥ 
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।
माहेश्वरीस्वरुपेण नारायणि नमोऽस्तु ते ॥ १२ ॥ 
मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ।
कौमारीरुपसंस्थाने नारायणि नमोऽस्तु ते ॥ १३ ॥ 
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।
प्रसीद वैष्णवीरुपे नारायणि नमोऽस्तु ते ॥ १४ ॥  
गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुंधरे ।
वराहरुपिणि शिवे नारायणि नमोऽस्तु ते ॥ १५ ॥
नृसिंहरुपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥ १६ ॥  
किरीटिनी महावज्रे सहस्त्रनयनोज्ज्वले ।
वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥ १७ ॥ 
शिवदूतीस्वरुपेण हतदैत्यमहाबले ।
घोररुपे महारावे नारायणि नमोऽस्तु ते ॥ १८ ॥
दंष्ट्राकरालवदने शिरोमालाविभूषणे ।
चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥ १९ ॥
लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टिस्वधे ध्रुवे ।
महारात्रि महाऽविद्ये नारायणि नमोऽस्तु ते ॥ २० ॥
मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते ॥ २१ ॥
सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ २२ ॥
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते ॥ २३ ॥
ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥ २४ ॥
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्योऽनः सुतानिव  ॥ २५ ॥
असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥ २६ ॥
रोगानशेषानपहंसि तुष्टा 
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां 
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ २७ ॥
एतत्कृतं यत्कदनं त्वयाद्य 
धर्मद्विषां देवि महासुराणाम् ।
रुपैरनेकैर्बहुधाऽऽत्ममूर्तिं 
कृत्वाम्बिके तत्प्रकरोति कान्या ॥ २८ ॥
विद्यासु शास्त्रेषु विवेकदिपे-
ष्वाद्येषु वाक्येषु च का त्वदन्या ।
ममत्वगर्ते ऽतिमहान्धकारे 
विभ्रामयदत्येतदतीव विश्वम् ॥ २९ ॥
रक्षांसि यत्रोग्रविषाश्च नागा 
यत्रारयो दस्युबलानि यत्र ।
दावानलो यत्र तथाब्धिमध्ये 
तत्र स्थिता त्वं परिपासि विश्वम् ॥ ३० ॥
विश्वेश्वरि त्वं परिपासि विश्वं 
विश्वात्मिका धारयसीति विश्वम् ।
विश्वेशवन्द्या भवती भवन्ति 
विश्वाश्रया ये त्वयि भक्तिनम्राः ॥ ३१ ॥
देवि प्रसीद परिपालय नोऽरिभीते-
र्नित्यं यथासुरवधादधुनैव सद्यः ।
पापानि सर्वजगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान् ॥ ३२ ॥
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥ ३३ ॥
॥ इति श्रीमार्कंडेयमहापुराणे भुवनेश्वरीकात्यायनीस्तुतिः सम्पूर्णा ॥ 
Bhuvaneshwari Katyayani Stutihi
भुवनेश्र्वरीकात्यायनीस्तुतिः 



Custom Search

No comments: