Wednesday, August 3, 2016

ManorathSiddhi Ganesh Stotra मनोरथसिद्धि गणेशस्तोत्र


ManorathSiddhi Ganesh Stotra 
ManorathSiddhi Ganesh Stotra is in Sanskrit. It is from Mudgal Purana. It is a praise of God Ganesh done by Skandha (God Kartikeya). He is telling at the end of stotra that any devotee, who recites, listen this stotra three times a day every day, he will receive whatever he desires.
मनोरथसिद्धि गणेशस्तोत्र
स्कन्द उवाच
नमस्ते योगरुपाय सम्प्रज्ञानशरीरिणे ।
असम्प्रज्ञानमूर्ध्ने ते तयोर्योगमायाय च ॥ १ ॥ 
वामाङ्गभ्रान्ति रुपा ते सिद्धि सर्वप्रदा प्रभो ।
भ्रान्तिधारकरुपा वै बुद्धिस्ते दक्षिणङ्गके ॥ २ ॥
मायासिद्धिस्तथा देवो मायिका बुद्धिसंज्ञिता ।
तयोर्योगे गणेशाय त्वं स्थितोऽसि नमोस्तु ते ॥ ३ ॥
जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।
तयोर्योगे गणेशाय नमस्तुभ्यं नमो नमः ॥ ४ ॥
चतुर्विधं जगत्सर्वं ब्रह्म तत्र तदात्मकम् ।
हस्ताश्चत्वार एवं ते चतुर्भुज नमोऽस्तु ते ॥ ५ ॥
स्वसंवद्यं च यद् ब्रह्म तत्र खेलकरो भवान् ।
तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ६ ॥
द्वन्द्वं चरसि भक्तानां तेषां हृदि समास्थितः ।
चौरवत्तेन तेऽभूद्वै वाहनं जगति प्रभो ॥ ७ ॥   
जगति ब्रह्मणि स्थित्वा भोगान्भुङ्क्षि स्वयोगगः ।
जगद्विर्ब्रह्मभिस्तेन चेष्टितं ज्ञायते न च ॥ ८ ॥
चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् ।
मूषको मूषकारुढो हेरम्बाय नमो नमः ॥ ९ ॥ 
किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् ।
वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ १० ॥
त्वया कृतमिदं स्तोत्रं योगशांतिप्रदं भवेत् ।
मयि भक्तिकरं स्कदं सर्वसिद्धिप्रदं तथा ॥ ११ ॥
यं यमिच्छसि तं तं वै दास्यामि स्तोत्रयान्त्रितः ।
पठते श्रृण्वते नित्यं कार्तिकेय विशेषतः ॥ १२ ॥
॥ इति श्री मुद्गलपुराणे भक्तमनोरथसिद्धिप्रदं श्रीगणेशस्तोत्रं संपूर्णम् ॥
ManorathSiddhi Ganesh Stotra 
मनोरथसिद्धि गणेशस्तोत्र




Custom Search

1 comment:

Unknown said...

अर्थ सुद्धा लिहा