Monday, August 29, 2016

ShivAshtottar ShatNam Stotram शिवअष्टोत्तरशतनाम स्तोत्रम्


ShivAshtottar ShatNam Stotram 
ShivAshtottar ShatNam Stotram is in Sanskrit. These are the 108 pious names of God Shiva. God Shiva had himself told these names to Goddess Paravati. The devotee who recites these names regularly receives blessings from God Shiva who removes all his difficulties and fulfils his desires.
शिवअष्टोत्तरशतनाम स्तोत्रम्
शिवो महेश्र्वरः शम्भुः पिनाकी शशिशेखरः ।
वामदेवो विरुपाक्षः कपर्दी नीललोहितः ॥ १ ॥
शंकरः शूलपाणिश्र्च खट्वाङ्गी विष्णुवल्लभः ।
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ २ ॥
भवः शर्वस्त्रिलोकेशः शितिकण्ठः शिवाप्रियः ।
उग्रः कपालिः कामारिरन्धकासुरसूदनः ॥ ३ ॥
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।
भीमः परशुहस्तश्र्च मृगपाणिर्जटाधरः ॥ ४ ॥
कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।
वृषाङ्को वृषभारुढो भस्मोद्धूलितविग्रहः ॥ ५ ॥
सामप्रियः स्वरमयस्त्रयीमूर्तिरनीश्र्वरः ।
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ ६ ॥
हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः । 
विश्र्वेश्र्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ ७ ॥
हिरण्यरेता दुर्धोर्षो गिरीशो गिरिशो!नघः ।
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥ ८ ॥
कृत्तिवासा पुरारातिर्भगवान् प्रमथाधिपः । 
मृत्युंजयः सूक्ष्मतनुर्जगद्व्यापि जगद्गुरुः ॥ ९ ॥
व्योमकेशो महासेनजनकश्र्चारुविक्रमः ।
रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥ १० ॥
अष्टमूर्तिरनेकात्मा सात्त्विकः शुद्धविग्रहः ।
शाश्वतः खण्डपरशुजपाशविमोचकः ॥ ११ ॥
मृडः पशुपतिर्देवो महादेवोऽव्ययः प्रभुः ।
पूषदन्तभिदव्यग्रो दक्षाश्र्वरहरो हरः ॥ १२ ॥
भगनेत्रभिदव्यक्तः सहस्त्राक्षःसहस्त्रपात् ।
अपवर्गप्रदोऽनन्तस्तारकः परमेश्र्वरः ॥ १३ ॥
इमानि दिव्यनामानि जप्यन्ते सर्वदा मया ।
नामकल्पलतेयं मे सर्वाभीष्टप्रदायिनी ॥ १४ ॥
नामान्येतानि सुभगे शिवदानि न संशयः ।
वेदसर्वस्वभूतानि नामान्येतानि वस्तुतः ॥ १५ ॥
एतानि यानि नामानि तानि सर्वार्थदान्यतः ।
जप्यन्ते सादरं नित्यं मया नियपूर्वकम् ॥ १६ ॥
वेदेषु शिवनामानि श्रेष्ठान्यघहराणि च ।
सन्त्यनन्तानि सुभगे वेदेषु विविधेष्वपि ॥ १७ ॥
तेभ्यो नामानि संगृह्य कुमाराय महेश्र्वरः ।
अष्टोत्तरसहस्त्रं तु नाम्नामुपदिशत् पुरा ॥ १८ ॥
॥ इति श्रीशिवअष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
ShivAshtottar ShatNam Stotram
शिवअष्टोत्तरशतनाम स्तोत्रम्


Custom Search

No comments: