Wednesday, August 10, 2016

Shri Madhusudan Stotram मधुसूदन स्तोत्रम्


Shri Madhusudan Stotram 
Shri Madhusudan Stotram is in Sanskrit. It is created by Shukdev. This is a praised of God Vishnu. Devotee is surrendering to the God and he says I have not done anything good but was engaged in doing bad as I have been engulfed in the samsara and went on collecting things for me, wife, and son-daughter. However now I have come to know that there is nobody other than you to help me from the sea of sorrow. I am frightened by diseases, old age and death which are approaching fast. Now I am repenting for not remembering you. Please help me and make me free from this birth-death circle.
मधुसूदन स्तोत्रम् 
ॐमिति ज्ञानमात्रेण रोगाजीर्णेन निर्जितः ।
कालनिद्रां प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥ १ ॥ 
न गतिर्विद्यते चान्या त्वमेव शरणं मम ।
पापपङ्के निमग्नोऽस्मि त्राहि मां मधुसूदन ॥ २ ॥ 
मोहितो मोहजालेन पुत्रदारगृहादिषु । 
तृष्णया पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥ ३ ॥ 
भक्तिहीनं च दीनं च दुःखशोकातुरं प्रभो ।
अनाश्रयनाथं च त्राहि मां मधुसूदन ॥ ४ ॥ 
गतागतेन श्रान्तोऽस्मि दीर्घसंसारवर्त्मसु ।
येन भूयो न गच्छामि त्राहि मां मधुसूदन ॥ ५ ॥  
बहवो हि मया दृष्टा क्लेशाश्र्चै पृथक् पृथक् ।
गर्भवासो महद्दुखं त्राहि मां मधुसूदन ॥ ६ ॥ 
तेन देव प्रपन्नोऽस्मि त्राणार्थं त्वत्परायणः ।
दुःखार्णवपरित्राणात् त्राहि मां मधुसूदन ॥ ७ ॥
वाचा यच्च प्रतिज्ञातं कर्मणा नोपपादितम् ।
तत्पापार्जितमग्नोऽस्मि त्राहि मां मधुसूदन ॥ ८ ॥  
सुकृतं न कृतं किंचिद्दुष्कृतं च कृतं मया ।
घोरे भवे निमग्नोऽस्मि त्राहि मां मधुसूदन ॥ ९ ॥ 
देहान्तरसहस्रेषु चान्योन्यं भ्रामितो ह्यहम् ।
तिर्यक्त्वं मानुपत्वं च त्राहि मां मधुसूदन ॥ १० ॥ 
वाचयामि यथोन्मत्तः प्रलपामि तवाग्रतः ।
जरामरणभीतोऽस्मि त्राहि मां मधुसूदन ॥ ११ ॥  
यत्र यत्र च यातोऽस्मि स्त्रीषु वा पुरुषेषु वा ।
तत्र तत्राचला भक्तिस्त्राहि मां मधुसूदन ॥ १२ ॥  
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
कदापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥ १३ ॥
उर्ध्वपातालमर्त्येषु व्याप्तलोकजगत्रयम् ।
द्वादशाक्षरात्परं नास्ति वासुदेवेन भाषितम् ॥ १४ ॥
द्वादशाक्षरं महामन्त्रं सर्वकामफलप्रदम् ।
गर्भवासनिवासेन शुकेन परिभाषितम् ॥ १५ ॥
द्वादशाक्षरं निराहारो यः पठेद्धरिवासरे ।
सगच्छेद्वैष्णवं स्थानं यत्र योगेश्र्वरो हरिः ॥ १६ ॥
॥ इति श्रीशुकदेवविरचितं मधुसूदनस्तोत्रमं संपूर्णम् ॥
Shri Madhusudan Stotram 
मधुसूदन स्तोत्रम् 



Custom Search

1 comment:

Chetan's Blog said...

Please show translation in Hindi