Monday, August 15, 2016

Shri MahaMrutyunjay Kavacham श्री महामृत्युंजय कवचम्


Shri MahaMrutyunjay Kavacham 
Shri MahaMrutyunjay Kavacham is in Sanskrit. God Shiva is called as Mrutyunjay. He is god of death. God Yama works as per orders of God Shiva.
श्री महामृत्युंजय कवचम् 

ॐ अस्य श्री महामृत्युंजय कवचस्य श्री भैरवऋषिः । गायत्री छन्दः ।
श्री मृत्युंजय रुद्रो देवता । ॐ बीजम् । जूँ शक्तिः । सः कीलकम् ।
हृौं इति तत्त्वम् । 
चतुर्वर्गफल साधने वा अमुकस्य सर्व व्याधी नाशार्थे अभिषेके वा पाठे विनियोगः ।
॥ अथ ध्यानम् ॥
ॐ चंद्रमंडल मध्यस्थे रुद्रमाले विचित्रिते ।
तत्रस्थं चिंतयेत्साध्यं मृत्युं प्राप्तोऽपि जीवति ॥ 
॥ अथ कवचम् ॥
ॐ जूँ सः हृौं शिरः पातु देवो मृत्युंजयो मम ।
श्री शिवो वै ललाटं च ॐ हृौं भ्रुवौ सदाशिवः ॥ १ ॥
नीलकंठोऽवतान्नेत्रे कपर्दी मेऽवताच्छुती ।
त्रिलोचनोऽवताम्दण्डौ नासां मे त्रिपुरांतकः ॥ २ ॥
मुखं पीयूषघट भृदोष्ठौ मे कृतिकाम्बरः ।
हनुं मे हाटकेशानो मुखं बटुकभैरवः ॥ ३ ॥
कंधरां कालमथनो गलं गणप्रियोऽवतु ।
स्कंधौ स्कंदपिता पातु हस्तौ मे गिरिशोऽवतु ॥ ४ ॥
नखान्मे गिरिजानाथः पायादंगुलि संयुतान् ।
स्तनौ तारापतिः पातु वक्षः पशुपतिर्मम ॥ ५ ॥
कुक्षिं कुबेरवदनः पार्श्र्वौ मे मारशासनः ।
शर्वः पातु तथा नाभिं शूली पृष्ठं ममावतु ॥ ६ ॥
शिश्नं मे शंकरः पातु गुह्यं गुह्यकवल्लभः ।
कटिं कालांतकः पायदूरु मेंऽधकघातकः ॥ ७ ॥
जागरुकोऽवताज्जानू जंघे मे कालभैरवः ।
गुल्फौ पायाज्जटाधारी पादौ मृत्युंजयोऽवतु ॥ ८ ॥
पादादिमूर्द्धपर्यंतं सद्योजातो ममावतु ।
रक्षाहीनं नामहीनं वपुः पात्वमृतेश्र्वरः ॥ ९ ॥
पूर्वे बलविकरणो दक्षिणे कालशासनः ।
पश्चिमे पार्वतीनाथ उत्तरे मां मनोन्मनः ॥ १० ॥
ऐशान्यामीश्र्वरः पायादाग्नेयामग्निलोचनः ।
नैर्ऋत्यां शंभुरव्यान्मां वायव्यां वायुवाहनः ॥ ११ ॥
ऊर्ध्वं बलप्रमथनः पाताले परमेश्र्वरः ।
दशदिक्षु सदा पातु महामृत्युंजयश्र्च माम् ॥ १२ ॥
रणे राजकुले द्युते विषमे प्राणसंशये ।
पायादों जूँ महारुद्रो देवदेवो दशाक्षरः ॥ १३ ॥
प्रभाते पातु मां ब्रह्मा मध्यान्हे भैरवोऽवतु ।
सायं सर्वेश्र्वरः पातु निशायां नित्यचेतनः ॥ १४ ॥
अर्धरात्रे महादेवो निशांते मां महोदयः ।
सर्वदा सर्वतः पातु ॐ जूँ सः हृौं मृत्युंजयः ॥ १५ ॥
इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभं ।
सर्वमंत्रमयं गुह्यं सर्वतंत्रेषु गोपितं ॥ १६ ॥
पुण्यं पुण्यप्रदं दिव्यं देवदेवादिदैवतं ।
य इदं पठेन्मंत्रं कवचं वाच्ययेत्ततः ॥ १७ ॥
तस्य हस्ते महादेवि त्र्यंबकस्याष्टसिद्धयः ।
रणे धृत्वा चरेद्युद्धं हत्वा शत्रूञ्जयं लभेत् ॥ १८ ॥
जपं कृत्वा गृहे देवि संप्राप्स्यति सुखं पुनः ।
महाभये महारोगे महामारी मये तथा ॥ १९ ॥
दुर्भिक्षे शत्रुसंहारे पठेत्कवचं आदरात् ॥ २० ॥
॥ इति श्री महामृत्युंजय कवचं संपूर्णम् ॥
Shri MahaMrutyunjay Kavacham 
श्री महामृत्युंजय कवचम् 


Custom Search

No comments: