Sunday, August 14, 2016

Shri Suryashtak Stotram श्री सूर्याष्टक स्तोत्रम्


Shri Suryashtak Stotram 
Shri Suryashtak Stotram is in Sanskrit. Devotee of God Surya is praising God Surya. He says you are Adideva, Bhaskar, divakara, prabhakara; I bow to you. You are son of Kashyap Muni. You are sitting on a chariot having seven horses. You are holding a white lotus in your hand. You are father of all lokas. You are Brahma, Vishnu and Maheshwara. You are destroyer of all sins. I bow to you.
श्री सूर्याष्टक स्तोत्रम्
श्री सूर्याष्टक स्तोत्रम्
श्री गणेशाय नमः । साम्ब उवाच ।
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥ १ ॥
सप्ताश्र्वरथमारुढं प्रचण्डं कश्यपात्मजम् ।
श्र्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ २ ॥
लोहितं रथमारुढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ३ ॥
त्रैगुण्यं च महाशूरं ब्रह्माविष्णु महेश्र्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ४ ॥
बृहितं तेजःपुंजं च वायुमाकासहमेवच ।
प्रभुंच सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥ ५ ॥ 
बन्धूकपुष्पसंकाशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ६ ॥
तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ७ ॥
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ८ ॥
सूर्याष्टकं पठेन्नित्यं ग्रहपीडाप्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥ ९ ॥
अमिषं मधुपानं च यः करोति रवेर्दिने ।
सप्तजन्म भवेद्रोगी प्रतिजन्मदरिद्रता ॥ १० ॥
स्त्रीतैलमधुमांसानि यःत्यजेत् रवेर्दिने ।
न व्याधिशोकदारिद्रयं सूर्यलोकं स गच्छति ॥ ११ ॥
॥ इति श्री सूर्याष्टक स्तोत्रम् संपूर्णम् ॥
Shri Suryashtak Stotram 
श्री सूर्याष्टक स्तोत्रम्


Custom Search

No comments: