Sunday, August 21, 2016

ShriGanesh AshtottarShatNam Stotram गणेशअष्टोत्तरशतनाम स्तोत्रम्


ShriGanesh AshtottarShatNam Stotram 
ShriGanesh AshtottarShatNam Stotram is in Sanskrit. It is from Shri Ganesh Purana Upasana Khanda. These are 108 names of God Ganesh/Ganapati.
गणेशअष्टोत्तरशतनाम स्तोत्रम् 
ॐ गणेश्र्वरो गणक्रीडो महागणपतिस्तथा ।
विश्र्वकर्ता विश्र्वमुखो दुर्जयो धूर्जयो जयः ॥ १ ॥
सुरुपः सर्वनेत्राधिवासो वीरासनाश्रयः ।
योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ २ ॥
चित्राङ्गः श्यामदशनो भालचन्द्रश्र्चतुर्भुजः ।
शम्भुतेजा यज्ञकायः सर्वात्मा सामबृंहितः ॥ ३ ॥
कुलाचलांसो व्योमनाभिः कल्पद्रुमवनालयः ।
निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः ॥ ४ ॥
पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठोलम्बनासिकः ।
सर्वावयसम्पूर्णः सर्वलक्षणलक्षितः ॥ ५ ॥
कामिनीकामनाकाममालिनीकेलिलालितः ।
अमोघसिद्धिराधार आधाराधेयवर्जितः ॥ ६ ॥
इन्दीवरदलश्याम इन्दुमण्डलनिर्मलः ।
कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ७ ॥
कमण्डलुधरः कल्पः कवर्दी कटिसूत्रभृत् ।
कारुण्यदेहः कपिको गुह्यागमनिरुपितः ॥ ८ ॥
गुहाशयो गुहाब्धिस्थो घटकुम्भो घटोदरः । 
पूर्णानन्दः परानन्दो धनदो धरणीधरः ॥ ९ ॥
बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः ।
भव्यो भूतालयो भोगदाता चै महामनाः ॥ १० ॥ 
वरेण्यो वामदेवश्र्च वन्द्यो वज्रनिवारणः ।
विश्र्वकर्ता विश्र्वचक्षुर्हवनं हव्यकव्यभुक् ॥ ११ ॥
स्वतन्त्रः सत्यसंकल्पस्तथा सौभाग्यवर्धनः ।
कीर्तिदः शोकहारी च त्रिवर्गफलदायकः ॥ १२ ॥
चतुर्बाहुश्र्चतुर्दन्तश्र्चतुर्थीतिथिसम्भवः ।
सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात् ॥ १३ ॥   
कामरुपः कामगतिर्द्विरदो द्वीपरक्षकः ।
क्षेत्राधिपः क्षमाभर्ता लयस्थो लड्डुकप्रियः ॥ १४ ॥
प्रतिवादिमुखस्तम्भो दुष्टचित्तप्रसादनः ।
भगवान् भक्तिसुलभो याज्ञिको याजकप्रियः ॥ १५ ॥
इत्येवं देवदेवस्य गणराजस्य धीमतः ।
शतमष्टोत्तरे नाम्नां सारभूतं प्रकीर्तितम् ॥ १६ ॥
सहस्त्रनाम्नामाकृष्य मया प्रोक्तं मनोहरम् ।
ब्राह्मे मुहूर्ते चोत्थाय स्मृत्वा देवं गणेश्र्वरम् ॥ १७ ॥
पठेत्स्तोत्रमिदं भक्त्या गणराजः प्रसीदति ॥ १८ ॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे गणपतिरष्टोत्तरशतनामस्तोत्रम् संपूर्णम् ॥
ShriGanesh AshtottarShatNam Stotram
गणेशअष्टोत्तरशतनाम स्तोत्रम् 


Custom Search

1 comment:

सोनाली said...

DUSHTAchittaprasadana ki RUSHTAchittaPrasadana?