Saturday, August 27, 2016

ShriHanumadAshtakam श्रीहनुमदष्टकम्


ShriHanumadAshtakam 
ShriHanumadAshtakam is in Sanskrit. It is composed by a Swami while he was in Nasik and visiting the temples in Nasik. He visited a Hanuman temple and created this beautiful stotra.
श्रीहनुमदष्टकम् 
वेगेन जनकाच्छ्रेष्ठस्त्विंद्रादिभ्यो बलेन च ।
धिया वाचस्पतेः श्रेष्ठो यस्तं नौमि मरुत्सुतम् ॥ १ ॥
समुद्रलंघनं सीताभयदानं तु रक्षसः ।
बलनाशं तु कः कुर्यादेकं मारुतिमंतरा ॥ २ ॥
संहारो न विनारुद्रं यतो रामसहायकृत् ।
कपिव्याजात्तु रुद्रवतारो मां पातु मारुतिः ॥ ३ ॥
यज्ज्ञानं यस्य वैराग्यं यद्भक्तिर्यद्बलं यशः ।
कः शक्तो भूतले वक्तुं तं वंदे मारुतात्मजम् ॥ ४ ॥
किं तेनरा वानरा वा येषां ख्यातिर्न भूतले ।
आरंकमानृपं ख्यातो यस्तं वंदे मरुत्सुतम् ॥ ५ ॥
अंजनी जननी यस्य पिताचाकाशसंभवः ।
साक्षाद्धरिः सखा यस्य स कपीशः श्रिये मम ॥ ६ ॥
कर्ता यो व्याकरणस्य बाल्ये फलधिया रविम् ।
ग्रसितुं यो प्रवृत्तो भूत्तं वंदे मारुतात्मजम् ॥ ७ ॥
सर्वमप्राकृतं यस्य चरितं लोकपावनम् ।
स कपि ग्रामणीर्नित्यं मम कष्टं व्यपोहतु ॥ ८ ॥
यः प्रातः पठतेमर्त्यो वायुसुनोरिहाष्टकम् ।
सोऽचिरादेव निर्भीतो बलशाली नरो भवेत् ॥ ९ ॥
॥ इति श्रीहनुमदष्टकम् संपूर्णम् ॥
ShriHanumadAshtakam
श्रीहनुमदष्टकम् 


Custom Search

No comments: